________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १८९ संशयसामग्रीसत्त्वादिति विभाव्यते, तदोक्तरीत्या प्रतिबन्धकस्य व्यभिचारग्रहस्य निवारकतया तदुपयोगः । एतेन 'अनन्यथासिद्ध' इत्यादेर्व्यञ्जकतया ज्ञानस्यावश्यकत्वादतिरिक्तकारणत्वकल्पने गौरवमित्यपास्तम् , अनतिरिक्तत्वेऽप्यतिरिक्तत्वभ्रमे तत्रोक्तव्यञ्जकताकल्पनावश्यकत्वाद् , अतिरिक्तकारणताकल्पनकाले उक्तगौरवानुपस्थितेश्चेति दिग् ।।
दित्यभिसन्धिः। उक्तरीत्या कारणत्वाद्यभावव्याप्यवत्तानिश्चयविधया । तदुपयोगः अन्वय-व्यतिरेकग्रहोपयोगः, अन्वयव्यतिरेकग्रहे अन्वयव्यतिरेकव्यभिचारज्ञानं कारणत्वग्रहप्रतिबन्धकं न भवति, प्रतिबन्धकाभावाच्च कारणत्वग्रह इत्येवंपरम्परया कारणत्वग्रहे प्रयोजकमन्वय-व्यतिरेकज्ञानमिति । एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः, एतेन- अन्वय-व्यतिरेकसहितप्रत्यक्षाऽऽगमादेरेव कारणत्वग्राहकत्वाभ्युपगमेन वक्ष्यमाणहतुना च, कारणत्वव्यअकतयाऽभिमतानन्यथासिद्धत्वादिज्ञानत एव कारणत्वव्यवहारोपपत्तावतिरिक्तकारणत्वकल्पने गौरवमित्यर्थः। 'अपास्तम्' इत्यत्र हेत्वन्तरमाह- अतिरिक्तत्वेऽपीति- कारणत्वस्यानन्यथासिद्धनियतपूर्ववर्तित्वात्मकत्वेऽपीत्यर्थः। अतिरिक्तत्वभ्रमे 'अनन्यथासिद्ध०' इत्यादितो: भिन्नमेव कारणत्वमिति भ्रमे । तत्र कारणत्वे । उक्तेति- 'अनन्यथा. सिद्ध०' इत्यादिगतेत्यर्थः, तथा चातिरिक्तत्वभ्रमकाले उक्तव्यञ्जकता. कल्पनस्याऽनतिरिक्तकारणतावादिनोऽप्यावश्यकतया न तन्निबन्धनगौरवमित्यर्थः। किञ्चातिरिक्तकारणताकल्पनोत्तरकालीनमुक्तगौरव तादृशकल्पनाकालेऽनुपस्थितत्वादेव न बाधकम् , उक्तयुक्तयाऽतिरिक्तकारणत्वसिद्धौ कथं तद्ग्रह इत्यपेक्षयोत्तरकाले तद्ग्राहकतया 'अनन्यथासिद्ध०' इत्यादिकं कल्प्यत इत्यतिरिक्तस्य कारणत्वस्य पूर्वमेव सिद्धत्वादुक्तकल्पनानिबन्धनगौरवं तद्वाधकं न भवतीत्यर्थः।