________________
१८८ ]
[ तत्त्वबोधनीविवृतिविभूषितम् प्रत्यक्षागमादिकम् । न चैवं व्यभिचारग्रहेऽपि तद्ग्रहप्रसङ्गः १ कारणत्वाद्यभावव्याप्यादितयैव व्यभिचारग्रहस्य गिरोधित्वात् तदग्रहे व्यभिचारग्रहेऽपि कारणताग्रहेस्येष्टत्वात् । न चैवं कारणताप्रत्यक्ष प्रत्यन्वयव्यतिरेकग्रहस्य हेतुत्वे मानाभावः? सत्यपि दण्डेन्द्रियसभिकर्षे विनाऽन्वय-व्यतिरेकग्रहं कारणत्वप्रत्यक्षानुदयात् तद्धेतुत्वसिद्धेः । यदि च तत्रापि कारणत्वं गृह्यत एव, न तु निश्चीयते, तद्वत्ताबुद्धिं प्रति यथा तदभाववत्ताज्ञानं प्रतिबन्धकम्, यथा च तद. भावव्याप्यवत्ताज्ञान प्रतिबन्धकम्, तथा तदभाववत्ताबुद्धिं प्रति तद्वत्ताज्ञानं तद्वयाप्यवत्ताज्ञानं च प्रतिबन्धकमिति वस्तुस्थितौ अन्वयव्यतिरेकन्यभिचारयोरतिरिक्तकारणत्वाभावरूपत्वाभावेऽपि तव्यायतया तज्ज्ञानस्य कारणत्वाभावव्याप्यवत्ताज्ञानत्वेन कारणत्ववत्ताशानविरोधित्वान्नान्वय-व्यतिरेकव्यभिचारज्ञाने सत्यतिरिक्तकारणत्व. प्रहसम्भव इति निषेधहेतुमुपदर्शयति- कारणत्वाद्यभावेति । तदग्रहे कारणत्वाभावव्याप्यत्वेन व्यभिचाराग्रहे । ननु भवतूक्तदिशा कारणत्वग्रह प्रति व्यभिचारग्रहस्य प्रतिबन्धकत्वम्, किन्तूक्तकारणत्वप्रत्यक्ष प्रति प्रमाणाभावादन्वयव्यतिरेकज्ञानस्य न कारणत्वमित्याशङ्कय प्रतिक्षिपति · न चैवमिति- अन्वय व्यतिरेकग्रहे सत्येव कारणत्वप्रत्यक्षं भवति, तदभावे कारणरूपर्धामणः प्रत्यक्षेऽपि तन्न भवतीत्यन्वय-व्यतिरेकाभ्यामेव कारणत्वप्रत्यक्षं प्रत्यन्वय-व्यतिरेकग्रहणस्य हेतुत्वमिति निषेधहेतुमाह- सत्यपि दण्डेन्द्रियसत्रिकर्ष इति-पतदुक्तिश्च कारणत्वप्रत्यक्षकारणतदिन्द्रियसन्निकर्षाभावादेव न कारणत्वप्रत्यक्षमिति शङ्कोन्मूलनार्थम् । तद्धेतु-वसिद्धेः कारणत्वप्रत्यक्षं प्रत्यन्वय व्यतिरेकग्रहस्य हेतुत्व. सिद्धेः। तत्रापि यत्र नान्वय-व्यतिरेकग्रहोऽथ च दण्डेन्द्रियसन्निकर्षस्तत्स्थलेऽपि । ननु कारणत्वनिश्चय एव कुतो न भवतीत्यत आहसंशयसामग्रीसत्त्वादिति-धर्मीन्द्रियसन्निकर्ष कोटिद्वयस्मरण-विशेषाऽदर्शनादिघटितसामग्रीसत्त्वात् संशयसामय्याश्च निश्चयप्रतिबन्धकत्वा