________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[१८७ अन्यथा साकारवादप्रसङ्गात् । कारणत्वत्वेनानुगतं च तत् कारणपदशक्यतावच्छेदकम् , ग्राहकं च तस्य क्वचिदन्वय-व्यतिरेकसहितविषयिताविशेषस्थापि सद्भाव इति तदवच्छिन्नत्वं कारणत्वेऽतिरिक्त सङ्गतिमङ्गतीति भावः। अन्यथा विषयाभावेऽपि विषयिताविशेषाभ्यु. पगमे । साकारवादप्रसङ्गादति- यथा विज्ञानवादी योगाचारो बौद्धविशेषो बाह्यघटपटादिलक्षणं विषयमस्वीकृत्यैव वासनाविशेषतो घटाकार-पटाकारादियोगिज्ञानमभ्युपगतवान् तन्मते घटाद्याकारत्वमेव ज्ञानस्य घटादिविषयकत्वम्, तथा भवन्मतेऽपि. कारणत्वलक्षणविषयाभावे कारणत्वविषयकज्ञानवद् घटादिलक्षणविषयाभावेऽपि घटादिविषयकं ज्ञानं घटाद्याकारज्ञानस्वरूपं भवेदिति बाह्यवादविलोपप्रसङ्ग इत्यर्थः।
ननु तत्तत्कार्यनिरूपितं तत्तत्कारणगतमतिरिक्तं कारणत्वं स्वाश्रयभेदेन भिन्नमननुगतत्वात् कारणपदप्रवृत्तिनिमित्तं न स्यादित्यत आह- कारणत्वत्वेनेति- कारणत्वस्यानेकत्वेऽपि तद्गतं कारणत्व. त्वमेकमेवेति तद्रूपेणानुगतं कारणत्वं कारणपदशक्यतावच्छेदकम्, यथा-चैत्रत्व-भैत्रत्वादीनामननुगतत्वेऽपि बुद्धिस्थत्वेनानुगतीकृतानां तेषां तत्पदशक्यतावच्छेदकत्वमिति। अतिरिक्तस्य कारणत्वस्य किं ग्राहकांमत्यपेक्षायामाह-ग्राहक चेति । तस्य अतिरिक्तकारणत्वस्य । __ नन्वनन्यथासिद्धत्वव्यापकत्वगर्भकारणत्वस्य ग्रहेऽनन्यथासिद्धत्वविरोध्यन्यथासिद्धत्वग्राहकत्वादन्वयव्यभिचारज्ञानस्य, व्यापकत्वविरोधिविषयकत्वाद् व्यतिरेकन्यभिचारज्ञानस्य च प्रतिबन्धकत्वेनान्वयव्यभिचारज्ञाने व्यतिरेकव्यभिचारज्ञाने वा ति न तादृशकारणत्वग्रहसम्भवः, अतिरिक्तकारणत्वस्य त्वनन्यथासिद्धत्वाद्यघटितत्वान्नोक्कदिशाऽन्वय-व्यतिरेकन्यभिचारज्ञानं तज्ञानविरोधीति अन्वय-व्यतिरेकव्यभिचारज्ञानेऽपि तज्ज्ञानप्रसङ्ग इत्याशङ्कां प्रतिक्षिति- न चैवमिति। तद्ग्रहप्रसङ्गः, अतिरिक्तकारणत्वग्रहप्रसङ्गः।