________________
१८६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् नाविरहात् , प्रतियोग्यविशेषिताऽखण्डभेदाभ्युपगमे च सर्वत्राखण्डाभाववत एवा खण्डाभावस्यैव वा हेतुत्वं स्यादिति बहु विप्लवेत । किञ्च, एवं विशेष्यभागोऽपि वैयर्थ्यमाप्नुयादकारणभेदस्यैवाखण्डस्य कारणतालक्षणत्वसम्भवात् । तस्मादिष्टसाधनत्वादिज्ञानकारणतावच्छेदकतयाऽतिरिक्तमेव कारणत्वम् , न चोक्तकारणताया विषयिताविशेपावच्छेद्यत्वसम्भवः ? विषयविशेषासिद्धौ विषयिताविशेषासिद्धेः,
मस्तु, तादृशाभावस्यैकस्व वा दण्डादिगतस्य हेतुत्वमिति दण्ड. त्वादिधर्मेंदण्डादीनां कारणताऽपि विलीयेत, दण्ड-चक्राद्यन्यतमत्वे. नाखण्डभेदस्वरूपेणकस्यव कारणत्वस्यापत्तेरित्यर्थः। दोषान्तरमाहकिचेति ।
_ विशेष्यभागो नियतपूर्ववर्तित्वम् । परोक्तस्य कारणत्वस्याऽसम्भवादतिरिक्तमेव कारणत्वमभ्युपेयांमत्युपसंहरति- तस्मादिति- प्रवृत्ति प्रतीष्टसाधनताज्ञानस्य, निवृत्ति प्रति द्विष्टसाधनताज्ञानस्य च कारणतायांविषर्यावधयाऽवच्छेदकतयाऽतिरिक्तमेव कारणत्वमभ्युपेयमित्यर्थः। यद्यतिरिक्तकारणता न स्याद् , न स्यात् तस्या ज्ञानविषयत्वमिति विषयितासम्बन्धेनेष्टसाधनताज्ञाननिष्ठकारणतावच्छेदकत्वमपि तस्याः स्यादित्याह- न चेति। उक्तकारणताया इष्टसाधनताज्ञाननिष्ठकारणतायाः पराभिमतकारणत्वस्वरूपायाः, इष्टसाधनताज्ञानविषयीभूताया अपि कारणतायास्तथाविधायाः, एकत्र विषयिताविशेषाघच्छेद्यत्वं विषयिताविशेषात्मकसम्बन्धावच्छिन्नत्वम्, अन्यत्र विषयिताविशेषनिरूपकत्वं तद्बहुव्रीहिलभ्यम् । निषेधे हेतुमाह- विषयविशेषासिद्धाविति- कारणतालक्षणो विषयविशेषो यदि स्यात् तदा तनिरूपिता विषयिताऽपि भवेत्, विषयविशेषस्यासिद्धौ तु किन्निरूपितो वियिताविशेषो भवेद् ? अतोऽतिरिक्तं कारणत्वमभ्युपेयम्, तथा चातिरिक्तकारणत्वलक्षणविषयविशेषस्य सद्भवात् तन्निरूपित..