________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १८५ योगिताक एक एव भेदो वा कारणतायां निविशत इति नाननुगमदोषो नवाऽन्यथासिद्धिनिरूपकेण कारणत्वभ्रमानुपपत्तिरिति वाच्यम् । उक्तभेदममूहे प्रतियोगिकोटावुदासीनप्रवेशाऽप्रवेशाभ्यां विनिगमपरत्वम् , तत्र विनिगमनाविरहाद् यस्य भेदस्य विशेष्यत्वं तस्य विशेषणत्वमपि स्पादित्यनेकरूपताऽन्यथासिद्धयनिरूपकत्वस्यापद्येतेत्यत आह- तावदन्यतमत्वेति- द्रव्यत्व-सत्त्वाद्यन्यतमत्वेत्यर्थः, अन्यतमत्वं चात्राऽखण्डोपाधिरेव न तु भेदकूटावच्छिन्नप्रतियोगिताकभेदरूपम् , तेन कूटत्वस्यैकविशिष्टापररूपत्वेन विशेष्यविशेषणभावे विनिगमनाविरहादनेकत्वापत्त्या तदवच्छिन्नावच्छेदकताकप्रतियोगिताकभेदस्यानेकत्वापत्तावपि न क्षतिः, यत उक्तलक्षणकभेद एवा. न्यथासिद्धयनिरूपकत्वम् , तस्यैकत्वात् , तद्धटितस्य कारणत्वस्याप्येकत्वमिति नाननुगमदोषः, निरुक्तकारणत्वं चान्यथासिद्धिनिरूपकेण धर्मेण नास्तीति तद्रूपेण कारणत्वज्ञानं भ्रम एवेति न तादृशभ्रमानुपपत्तिरित्यर्थः। निषेधहेतुमुपदर्शयति- उक्तभेदसमूह इतिनिरुक्तभेदसमूहे नियतपूर्ववर्तितावच्छेदकद्रव्यत्व सत्त्वादिभेदानां यथा निवेशस्तथा नियतपूर्ववर्तितानवच्छेदकानां घटत्वादीनां भेदा अपि विनिगमनाविरहान्निविष्टा एव भविष्यन्ति, एवं केषाश्चिद् वटत्वादीनां भेदास्तत्र सन्निविष्टा भवन्तु, केषाश्चित् तथाभूतानामेव घटत्वादीनां भेदास्तत्र मा विशन्तु, एवं दिशा बहवो निरूपकमेदसमूहा अन्यथासिद्धयनिरूपकत्वरूपतामासाद्य कारणत्वस्वरूपसन्निविष्टाः स्युः, तेषां च नानुगमवार्ताऽपीत्यननुगमदोषः, अन्यतमत्वमपि भेदकूटावच्छिन्नप्रतियोगिताकभेदरूपमेव न त्वखण्डोपाधिः प्रमाणाभावादिति तदच्छिन्नप्रतियोगिताकभेदोऽपि प्रतियोगिविशेषित. रूपेणैव प्रतीतिकोटिमाटीकते, तथा च पूर्वोक्तदिशा तस्याप्यनेकत्व मासज्यत एव, प्रतियोगिविशेषितस्यापि तस्याखण्डभेदरूपतामुपगम्य तद्व्यक्तित्वेनैव भानाभ्युपगमे दण्ड-चक्र-कुलालादिभेदकुटावच्छिन्नप्रतियोगिताकभेदरूपाखण्डाभाववत एव घटं प्रति कारणत्व