________________
१८४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् 'अवश्यक्लप्त०' इत्यादिकमप्यावश्यकत्वस्य दुर्वचत्वान्न युक्तम्। न च, अन्यथासिद्ध्यनिरूपकनियतपूर्ववर्तिताकरूपवत्वं हेतुत्वम् , तत्रान्यथासिद्ध्यनिरूपकत्वं च येन नियतपूर्ववर्तितावच्छेदकेन कारणत्वं न व्यवह्रियते तत्तद्भेदसमूहः. तावदन्यतमत्वावच्छिन्नप्रति
तृतीयान्यथासिद्धिमपहस्तयति- अवश्यक्लप्तेत्यादिकमिति- शरीरसंबन्धोपस्थितिकृतलाघवादावश्यकत्वं भवति, पूर्ववर्तित्वसाम्येऽपि यस्य यदपेक्षया लघुशरीरं लघुभूतः सम्बन्ध उपस्थितिर्वा शीघ्रं भवति तदावश्यमिति गीयते, तथा च लाघवस्य निर्वचने सत्येवावश्यकत्वस्य निर्वचनं सम्भवति, लाघवं च सनिरूपकमिति निरूपकभेदेन भिन्नम् , न च सकललाघवानुगतं लाघवत्वं नाम किश्चित् समस्ति, ततश्च लाघवस्यैवानुगतस्य निर्वतमशक्यत्वात् तन्निबन्धनसिद्धि. कमावश्यकत्वमपि निर्वमशक्यमिति भवति तस्य दुर्वचत्वम् । यादृशस्य कारणत्वस्याभ्युपगमे नाननुगमदोषो नवाऽन्यथासिद्धिनिरूपकेण कारणत्वस्य भ्रमानुपपत्तिस्तादृशं कारणत्वमाशङ्कय प्रतिक्षिपति- न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः, अन्यथासिद्धयनिरूपकं नियतपूर्ववर्तिताकं यद् रूपं तद्वत्वं कारणत्वम्, नियता पूर्ववर्तिता येन तद् नियतर्ववर्तिताकमिति विग्रहाश्रयणाद् 'नियतपूर्ववर्तिताकम्' इत्यस्य नियतपूर्ववर्तितावच्छेदकमित्यर्थः। दण्डत्वेन दण्डस्य घटं प्रति नान्यथासिद्धिरिति दण्डत्वमन्यथासिद्धयनिरूपकम् , दण्डे घटपूर्ववर्तिता दण्डत्वेनैव नियतेति नियतपूर्ववर्तितावच्छेदकमपि तत् , तद्वत्वं च दण्डे समस्तीति भवति तस्य घटकारणत्वम् । तत्र निरुक्तलक्षणे, घटकत्वं सप्तम्यर्थः।
येन द्रव्यत्व-सत्त्वादिना, घटपूर्ववर्तितावच्छेदकेन दण्डस्य घटं प्रति कारणत्वं न व्यवहियते 'द्रव्यत्वेन दण्डो घटस्य कारणम्' इत्येवं न व्यवद्रियते तत्तद्रव्यत्व-सत्त्वादिभेदसमूहोऽन्यथासिद्धयनिरूपकत्वं तद्दण्डत्वे समस्ति न द्रव्यत्वादो। ननु समूहत्वमेकविशिष्टा