________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १८३ दिपूर्ववर्तित्वेन गृहीतस्यैव घटादिपूर्ववर्तित्वग्रहाद् घटादावन्यथासिद्ध्यिापत्तेः। क्षित्यादिपूर्ववर्तित्वग्रहादेव कार्यमात्रे तद्धेतुत्वसिद्धिरिति चेत् ? तथापि शब्दसाक्षात्कारे गगनस्यान्यथासिद्ध्यापत्तिः । इन्द्रियत्वेन तत्र हेतुत्वग्रहाददोष इति चेत् ? न-तथापि श्रावणत्वावच्छिन्ने श्रोत्रत्वेनाहेतुत्वप्रसङ्गात् । क्षित्यादिकं प्रति पूर्ववर्तिता सिद्धैव, ज्ञाने प्रतिनियतविषयत्वसिद्धिः स्वकारणबलादनुव्यवसायाद् वा, ईश्वरज्ञानस्य च नित्यत्वेन तत्कारणाभावान्न कारणनियम्या प्रतिनियतविषयता, अस्मदादिज्ञानेन च नानुभूयत ईश्वरज्ञानं प्रतिनियविषयतया, स्वयं च स्वप्रकाशरूपत्वादेव नानुव्यवसायगम्यम्, अतो न तस्य प्रतिनियतविषयत्वम्, किन्त्वनुमानतः सिद्धयत् तत् सर्वविषयकमेव विनिगमकाभावात् सिद्धयति, ततश्च घटोपादानगोचराऽपरोक्षज्ञानरूपत्वाद् घटं प्रति तत् कारणम्, एवं पटादिकं प्रत्यपि, क्षित्यादिकंप्रत्यप्युपादानगोचरापरोक्षज्ञानत्वेनैव तस्य कारणता, सा च घटोपादानगोचराऽपरोक्षज्ञानत्वाद् घटं प्रत्यप्यविशिष्टा ज्ञेया, एवं सत्यप्यत्र द्वितीयान्यथासिद्धिलक्षणगमनादन्यथासिद्धरापत्तिरित्यर्थः । घटादावीश्वर ज्ञानादेरन्यथासिद्धिपरिहारमाशङ्कते-क्षित्यादिपूर्वमित्वमहादेवेति। तद्धेतु वसिद्धिः ईश्वरज्ञानादिनिष्टहेतुत्वसिद्धिः। प्रतिक्षिपति- तथाऽपीति- ईश्वरज्ञानादेर्घटादिकं प्रत्यन्यथासिद्धत्वाभावेऽपीत्यर्थः। शब्दसाक्ष त्कार इति-शब्दं प्रति पूर्ववर्तित्वं गृहीत्वैवाकाशस्य शब्दसाक्षात्कारं प्रति पूर्ववर्तित्वं गृह्यत इति द्वितीयान्यथासिद्धिलक्षणगमनम् । प्रत्यक्षत्वावच्छिनं प्रतीन्द्रियत्वेन यत् कारणत्वं तदादायाकाशस्य शब्दसाक्षात्कारं प्रति कारणत्वं निर्वहतीत्याशङ्कते- इन्द्रियत्वेनेति । तत्र आकाशे । श्रावणत्वावच्छिन्नं प्रति श्रोत्रत्वेनाकाशस्य यत् कारणत्वं तस्य विलोपः स्यादेवेति समाधत्ते- नेति। तथापि सामान्यकार्यकारणभावमुपादायाकाशस्य शब्दसाक्षात्कारं प्रति कारणत्वेऽपि ।