________________
१८२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
यस्य तद्रहितस्य' इत्युक्तौ नियमादिप्रवेशवैफल्यात्, 'पृथगन्वयादिमता' इत्यादेरनुगतानतिप्रसक्तस्य दुर्वचत्वाच्च ।
-
'अन्यं प्रति०' इत्यादिकमप्ययुक्तम्, ईश्वरज्ञानादेः क्षित्यानीलधूमाद्' इत्यत्र नीलधूमस्येव व्यर्थविशेषणघटितत्वाद् व्याप्यत्वासिद्धत्वं स्यादित्यर्थः । भवतु नियमाद्यघाटतमेवेत्यत आहपृथगन्वयेत्यादि - किं तत् पृथगन्वयवत्त्वम् ? किं वा पृथग्व्यतिरेकवत्त्वम् ? दण्डसत्त्वे घटसत्त्वमन्वयः, दण्डाभावे घटाभावो व्यतिरेक इत्येवं निर्वचनं च दण्ड- घटादिकारण- कार्यभेदेनाननुगतमेव, कारणसत्त्वे कार्यसत्त्वमन्वयः कारणाभावे कार्याभावो व्यतिरेक इत्येवं निर्वचनं त्वनुगतं तदा भवेद् यदि कारणत्थं कार्यत्वं चान्वय-व्यतिरेकावगमात् प्रागेव सुगृहीतं भवेत्, न चैवम, अन्वयव्यतिरेकज्ञानत एव कारणत्व कार्यत्वज्ञानाभ्युपगमात्, अन्यथा सिद्धिशून्यत्वघटितं च कारणत्वमन्यथासिद्धिशून्यत्वज्ञानाज्ज्ञायते, अन्यथासिद्धिशून्यत्वज्ञानं चान्यथासिद्धिज्ञानात्, अन्यथासिद्धिज्ञानं चान्यथासिद्धिस्वरूपसन्निविष्टपृथगन्वयव्यतिरेकज्ञानात् पृथगन्वयव्यतिरेकज्ञानं चः कारणत्वज्ञानादित्येवं चक्रकापत्त्याऽपि न कारणत्वादिनाऽन्वयव्यतिरेकानुगमनं कर्तुं शक्यम्, तथा च दण्डत्वादिकमननुगतमिति तद्घटितान्वयव्यतिरेकावप्यननुगतों, प्रमेयत्वादिकं चातिप्रसक्तम्, तद्व्यतिरिक्तं च कारणमात्रेष्वेव : वर्तमानं कारणत्वातिरिक्तं निर्वतुमशक्यमित्यन्वयव्यतिरेकावेवानुगतौ निर्वक्तुमशक्यों सुतरां पृथक्त्वघटतौ तावित्येवं 'पृथगन्वयादिमता' इत्यादेरनुगतानतिप्रसक्तस्य वक्तुमशक्यत्वाश्चेत्यर्थः।
द्वितीयान्यथासिद्धिनिर्वचनं प्रतिक्षिपति - अन्यमिति । अयुक्तत्वे हेतुमाह - ईश्वरज्ञानादेरित्यादि 'क्षितिः सकर्तृका कार्यत्वाद् ' इत्याद्यनुमानेन क्षितिकारणतयेश्वरज्ञानं सिद्धयति, तत्र कार्यत्वावच्छिन्नं प्रत्युपादानगोचराऽपरोक्षज्ञानादिमत्त्वेन न कारणत्वं किन्तूपादानगोचरा:परोक्षज्ञानत्वेनैव कारणत्थं च नियतपूर्ववर्तित्वमेवेति तत्सिद्धौ