________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १८१ सिद्धिज्ञानप्रयोजकत्वात् ।
__ समूहान्वय व्यतिरेकाभ्यां समूहे कारणत्वग्रहे तदितरगृहीततत्कार्यकारणताकसमूहसवे तद्वयतिरेकेऽवश्यं. कार्यव्यतिरेका, तावत्समूहसत्त्वे तत्सत्त्वे चावश्यं तत्कार्यसत्त्वमित्यन्वयव्यतिरेकयोहो विशिष्य तत्कारणत्वग्राहकः, तयोघेहे चान्वय-व्यतिरेकव्यभिचारज्ञानं विरोधीत्यप्याहुः ॥
अत्र 'येन सह०' इत्यादिकमयुक्तम् , 'येन-पृथगन्वयादिमता, 'अन्वयव्यभिचारज्ञानमीदृशकारणत्वग्रहे विरोधि' इत्यनुवर्तते ।
अन्वयव्यभिचारज्ञानस्य प्रकारान्तरेण कारणत्वग्रहविरोधित्व मुपवर्णयतां मतमुपदर्शयति- समूहान्वय-व्यतिरेकाभ्यामिति- कारणसमूहसत्त्वे कार्यसत्त्वं कारणसमूहाभावे कार्याभाव इत्येवमन्वयव्यतिरेकाभ्यामित्यर्थः। समूहे कारणसमूहे। एवं सति दण्डवक्रादिसमूह एव कारणत्वं सिध्येन्न प्रत्येकं दण्डादावित्यत आह- तदितरेति-दण्डेतरो गृहीतघटकारणताको यश्चक्रादिसमूहस्तस्य सत्त्वे दण्डव्यतिरेकेऽवश्यं घटाभावः, दण्डातिरिक्तचक्रादिसमूहसत्त्वे दण्डसत्त्वेऽवश्यं घटसत्त्वमित्येवंस्वरूपान्वय-व्यतिरेकयोग्रहो दण्डत्वेन दण्डस्य घटकारणत्वग्राहकः, एवं चक्रादीनामपि विशिष्य कारणत्वग्राहक उक्तदिशाऽन्वय व्यतिरेकयोर्ग्रहोऽवसेयः। तयोर्ग्रहे उक्तदिशाऽन्वय व्यतिरेकयोहे।
इत्थं वैशेषिकाभिमतमनन्यथासिद्धत्वघटितकारणत्वस्वरूपमुपपाद्य तत्खण्डनमारभते- अत्रेति । तत्र प्रथमान्यथासिद्धिनिर्वचनमपाकरोति- येनेत्यादि । पृथगन्वयादिमता पृथमन्वय-व्यतिरेकवता । नियमादीति- 'येन सहैव०' इत्येवकारेण लब्धस्य लक्षणे नियमप्रवेशस्य, वैफल्यात्- प्रयोजनाभावात् , तथा च नियमघटितस्य प्रथमान्यथासिद्धिलक्षणस्येतरभेदसाधने हेतुभूतस्य 'पर्वतो वह्निमान्