________________
१८० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् न्यतरवचं वाच्यमित्यन्ये । न चाव्यवहितत्वांशत्यागेन तचत्पूर्वसमयावच्छेदेनेत्येतावदेवोच्यताम् ? अव्यवहितपूर्व समयावच्छेदेन कार्यवति यदभावो ज्ञायते तत्र कारणता बुद्ध्यनुदयेन तन्निवेशात् । अथेदृशकारणत्वग्रहेऽस्तु व्यतिरेकव्यभिचारज्ञानं विरोधि, अन्वयव्यभिचारज्ञानं तु कुत इति चेत् ? ' अवश्य क्लस ० ' इत्याद्यन्यथा
I
वत्त्वस्य
इत्येवोच्यताम्, तावतैव पूर्वकालावच्छेदेन सतो यागादेः कारणत्वं निर्वहतीति स्वव्यापारवत्त्वं न निवेशनीयमित्याशङ्कय प्रतिक्षिपतिन चेति । निषेधे हेतुमाह - अव्यवहितेति । तत्र कार्याधिकरणेऽव्यवहितपूर्व समयावच्छेदेन वर्तमानाभावप्रतियोगिनि । तन्निवेशात् स्वव्यापारववस्य निवेशात् । ननु अन्वयव्यतिरेकग्रहाभ्यां कारणत्वग्रहो भवति, तत्रान्वयः कारणसत्त्वे कार्यसत्त्वम्, व्यतिरेकः कारणाभावे कार्याभावः, कारणत्वज्ञाने अन्वयव्यभिचारज्ञानं व्यतिरेकव्यभिचारज्ञानं च प्रतिबन्धकम्, तत्रान्वयव्यभिचारः कारणसत्त्वे कार्याभावः, व्यतिरेकव्यभिचारस्तु कारणाभावे कार्यसत्त्वमिति वस्तुस्थितौ प्रकृते निरुक्तकारणत्वस्य कार्यव्यापकत्वघटितत्वात् कारणाभाववति कार्य सत्त्वनिश्चये कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकधर्मवत्त्वस्यैव कारणे हे तद्भावरूपव्यापकत्वगर्भकारणत्वग्रहप्रतिबन्धाद् व्यतिरेकव्यभिचारज्ञानं भवतु निरुक्तकारणत्वग्रहप्रति बन्धकम्, अन्वयव्यभिचारे सत्यपि कारणस्य कार्यव्यापकत्वमनपार्यामति कथमन्वयव्यभिचारज्ञानं निरुक्तकारणत्वग्रहविरोधीत्याशङ्कते - अथेति । अन्यथासिद्धभिन्नत्वस्यापि कारणत्वलक्षणे प्रवेशाद् यस्यान्वयव्यभिचारस्तस्य 'अवश्य क्लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्व 'लक्षणान्यथासिद्धत्वमेवेत्यन्वयव्यभिचारशाने सति अन्यथासिद्धत्वज्ञानम्, ततश्चाऽन्यथासिद्ध भिन्नत्वघटितकारणग्रहप्रतिबन्धः इत्येवमन्वयव्यभिचारज्ञानस्यापि निरुक्तकारणत्वग्रह - प्रतिबन्धकत्वमुपपद्यत इति समाधत्ते - अवश्येति - पञ्चम्यन्तानन्तरम्