________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १७९ मपि पाकालावच्छेदेन कार्याधिकरणस्थूलकालसम्बन्धि, यागादिक च स्वजन्यापूर्वसम्बन्धेन तथा, तादृशसम्बन्धिवृत्तिधर्म स्वव्यापारातद्रूपकार्याधिकरणकाले कार्याव्यवहित पूर्वकालावच्छेदेन कालिकसम्बधेन सम्बन्धि कारणं भवति, पूर्वकालस्यापि स्थूलकालकालीनत्वेन तत्सम्बन्धि भवतीति तवृतौ तस्यावच्छेदकत्वं निर्वहतीति । ननु यागो न स्वर्गरूपकार्याव्यवहित पूर्वकाले वर्तत इति न तद्गतकार्याधिकरणसम्बन्धित्वेन तस्यावच्छेदकत्वमिति तत्रोक्तलक्षणस्याव्याप्तिरित्यत आह-यागादिक चेति । तथा कार्याव्यवहितपूर्वकालावच्छेदेन स्वर्गादिरूपकार्याधिकरणसम्बन्धि, यागो यदि साक्षात्सम्बन्धेन कारणं स्याद, न स्यात् तदा कार्याध्यवहित पूर्वकालावच्छे देन कार्याधिकरणसम्बन्धी, न चैवम्, किन्तु स्वजन्यापूर्वसम्बधेन कारणम्, तेन सम्बन्धेन च कार्याव्यर्वाहत पूर्वकालेऽपि स वर्तत इति कार्याव्यवहितपूर्वकालावच्छेदेन कार्याधिकरणसम्बन्धी स भवत्येवेत्युक्तलक्षणस्य तत्र सम्पत्तिः।
यागादेः कारणत्वोपपत्तयेऽन्येषां मतमुपदर्शयति- तादृशसम्बन्धीतिधूमत्वाद्याश्रया यावन्तः प्रत्येकं तत्तदव्यवहितपूर्वकालावच्छेदेन तत्तदधिकरणे यत् तत्तत्सम्बन्धेन सम्बन्धिवृत्तिरूपं यश्च स्वव्यापारस्तदन्यतरवत्त्वं कारणत्वम् , यत्र कारणं साक्षात्सम्बधेन कार्याव्यवहितप्राकक्षणावच्छेदेन कार्याधिकरणे वर्तते तत्र तत्कारणगततव्यक्तित्वादिरूपमुपादाय लक्षणसमन्वयः, यत्र तु कारणं तदानीं न विद्यते किन्तु व्यापारस्तत्र व्यापारवत्त्वमादाय लक्षणसमन्वयः, यथा-यागस्य स्वर्ग प्रति कारणत्वे स्वास्याव्यवहित पूर्वसमये सुखविशेषरूपस्वर्गाधिकरणे आत्मनि यागो न विद्यते, तस्य पूर्वमेव विनष्टत्वात्, किन्तु तद्व्यापारोऽदृष्टरूपः, तथा च सुखविशेषात्मकस्वरूपकार्याधिकरणे विद्यमान यत् व्यापारतयाऽभिमतमदृष्टं जनकतासम्बन्धेन तद्वत्त्वं यागेसमस्तीति निरुक्तान्यतरवत्त्वलक्षगं कारणत्वं तत्रोपपद्यत इति । ननु 'तत्तदपवहितपूर्वकालावच्छेदेन' इति स्थाने 'तत्तत्पूर्वकालावच्छेदेन'