________________
१७६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् तानवच्छेदकत्वे तु तत्तत्कार्याव्यवहितपूर्वकालावच्छिन्नतत्तत्कारणतावच्छेदकसम्बन्धेन प्रतियोगिव्यधिकरणत्वं निवेश्यम् , अतोन यागादेः स्वजन्यापूर्वसम्बन्धेन हेतुत्वं दुर्घटम् , नवा धूम,सेऽतिव्याप्तिः, नवा प्रागुक्तरीत्यापि धूमसंयोगाभावेऽतिव्याप्त्यनिवृत्तिः, धूमावयवसंयोगाभावे त्वाद्यान्यथासिद्धेरिव नातिव्याप्तिरिति बोध्यम्। आह- वृत्त्यनियामकसम्बन्धस्येति । तत्तत्कार्येति- एवं च कारणतानवच्छेदकोभूतसम्बन्धावच्छिन्नप्रतियोगिताककारणाभावस्य कार्याधिकरणे वर्तमानत्वेऽपि तत्तत्कार्याव्यवहितपूर्वकालावच्छिन्नतत्तत्कारणतावच्छेदकसम्बन्धेन प्रतियोगिसमानाधिकरणत्वात् तस्य ग्रहणासम्भवेन तमादायाव्याप्त्यसम्भवादभावीयप्रतियोगितायां कारणतावच्छेदकतत्तत्सम्बन्धावच्छिन्नत्वस्यानिविष्टतया वृत्त्यनियामकेनापि स्वजन्यापूर्ववत्त्वसम्बन्धेन यागादेः स्वर्गादिकं प्रति कारणत्वमुपपद्यत इत्याहभतो न यागादेरिति । धूमध्वंसाभावस्य धूमाधिकरणे धूमावयवे वर्तमानस्य निरुक्तप्रतियोगिव्यधिकरणत्वसम्भवेन तत्प्रतियोगितावच्छेदकधर्मवत्त्वादेवोक्तलक्षणाभावान्न धूमध्वंसे धूमकारणत्वापत्तिरपीत्याह- नवा धूमध्वंसेऽतिव्याप्तिरिति । देशानवच्छिन्नविशेषणतया वर्तमानत्वस्य निवेशपक्षे धूमसंयोगाभावाभावस्य धूमसंयोगरूपस्य देशानवच्छिन्नविशेषणतया वर्तमानत्वाभावात् तद्धारणासम्भवादन्याभावस्यैव ग्रहणेन तत्प्रतियोगितानवच्छेदकधर्मवत्त्वेन धूमसंयोगाभावस्य धूमं प्रति कारणत्वापत्तिरपीदानी देशानवच्छिन्नविशेषणतया वर्तमानत्वस्यानिवेशेन तद्धृमाव्याहतपूर्वसमयावच्छेदेनासत्त्वादेव निरुक्तप्रतियोगिवैयधिकरण्यवत्तया च धूमसंयोगाभावाभावस्य धारणसम्भवेन न सम्भवतीत्याह- नवा प्रागुक्तरीत्योत । धूमावयवसंयोगाभावलक्षणप्रतियोगिसमानाधिकरणत्वाद् धूभावयवसंयोगाभावाभावस्य निरुक्तप्रतियोगिव्यधिकरणाभावपदेन धारणासम्भवाद् धूमावयवसंयोगाभावेऽतिव्याप्तिः स्यादित्यत आह- धूमाव