________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १७७ इत्थं च कालिकेन यत्र कारणत्वं तत्र तत्तत्कार्याव्यवहितप्राकालत्वव्यापकतावच्छेदकरूपवत्त्वमेव तत् । यदि च द्विकपालयवेति-धूमावयवसंयोगाभावे धूमं प्रति पूर्ववर्तित्वं धूमावयवसंयोगेन सहैव गृह्यत इति प्रथमान्यथासिद्धेः सद्भावादन्यथासिद्धिशून्यत्वस्याभावादेव न तद्धटितकारणत्वलक्षणातिव्याप्तिरित्यर्थः। लक्ष्य भेदेन लक्षणभेदाद् यत्र लघुभूतकारणत्वलक्षणादपि निर्वाहस्तत्र लघुभूतकारणत्वलक्षणमेव वाच्यमित्याह- इत्थं चेति- अन्त्यतन्तुसंयोगस्य कालिकेन सहस्रतन्तुकपटं प्रति कालिकेन कारणत्वम्, तत्र सहस्रतन्तुकपटलक्षणकार्याव्यवहितपूर्वकालत्वाधिकरणे तदन्त्यतन्तुसंयोग एव कालिकसम्बन्धेन वर्तत इति कालिकसम्बन्धावच्छिन्नप्रतियोगिताकस्तभावो न तत्र वर्तते किन्तु या घटादि. व्यक्तिस्तदानीं न समस्ति तदभाव एव, तत्प्रतियोगिताया अवच्छेदकं तद्घटादियक्तित्वम् , अनवच्छेदकं तच्चरमतन्तुसंयोगव्यक्तित्वम् , तद्वत्त्वं तच्चरमतन्तुसंयोगव्यक्तौ समस्तीति लक्षणसमन्वयः। तत् कारणत्वम् । यत्र तु कार्यस्य देशतोऽपि कालतोऽपि च व्यापक कारणं तत्र देशगर्भव्यापकत्वघटितं यथा कारणत्वं तथा कालगर्भव्यापकत्वघटितमपि कारणत्वं सम्भवति, तयोश्चैकमेव कारणत्व. मिति विनिगन्तुमशक्यत्वेन कारणताद्वयमेव तत्र स्वीकर्तुमुचितम्, तत्र देशतो व्यापकत्वगर्भकारणत्ववतः कारणात् कार्यस्य देशनियमनम्, कालतो व्यापकत्वगर्भकारणत्ववतः कारणात् कार्यस्य कालनियमनम्, तत्रव देशतोव्यापकत्व-कालतोव्यापकत्वद्वयगर्भमेकमपि कारणत्वं सम्भति, तादृशैककारणत्ववतोऽपि कारणात् कायस्य देश-कालोभयनियमनं सम्भवतीत्याह- 'यदि चेति । तत्संयो. गस्य कपालद्वयसंयोगस्य, यस्मिन् देशे यस्मिन् काले च तादृशघटादिस्तस्मिन् देशे तस्मिन् काले च तादृशसंयोगोऽस्तीति तत्रककव्यापकतागर्भमपि कारणत्वं समस्ति व्यापकताद्वयगर्भमपि कारणत्वमिति ।।