________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १७५ स्यैव कार्यतावच्छेदकत्वम्' इति प्राचीनगाथापि सङ्गच्छते । अथात्र शिखराद्यवच्छेदेन वह्नयभावसचादव्याप्तिः, प्रतियोगिव्यधिकरणत्वनिवेशे तु धूमध्वंसातिव्याप्तिरिति चेत् ? न-देशानवच्छिन्नविशेषणतया वर्तमानत्वस्य वाच्यत्वात् , न च वह्नयभावः पर्वतादौ देशानवच्छिन्नविशेषणतया वर्तते । वृत्त्यनियामकसम्बन्धस्य प्रतियोगिकिन्तु कार्यमात्रवृत्तिधर्मस्यैव जन्यतावच्छेदकत्वे तदाश्रयाणां प्रत्येक तत्तदव्यवहितपूर्वकालप्रसिद्धया तदवच्छिन्ने उक्तकारणत्वलक्षणं सुसङ्गतमिति कार्यमात्रवृत्तिधर्मस्यैव कार्यतावच्छेदकत्वमिति प्राचीनोक्तिः सुसङ्गता भवतीत्यर्थः।
ननु धूमाद्यधिकरणे पर्वतादौ तत्तद्भूमाद्यव्यवहितपूर्वकालावच्छेदेनापि शिखराद्यवच्छेदेन वह्नयाद्यभावसत्त्वात् तत्प्रतियोगितावच्छेदकधर्मवत्त्वमेव वह्नयादावित्युक्तलक्षणाऽव्याप्तिः, तद्वारणाय यद्यभावे प्रतियोगिव्यधिकरणत्वविशेषणमुपादीयते तदा धूमध्वंसस्यापि धूमं प्रति कारणत्वं स्यात्, तद्भूमाधिकरणे तद्भूमावयवे तधूमाव्यवहितपूर्वकालावच्छेदेन तळूमध्वंसाभावस्य सत्त्वेऽपि तस्य प्रतियोगिव्यधिकरणत्वासम्भवात् तधूमावयवे तळूमध्वंसस्य सत्त्वादित्याशङ्कते- अथेति। समाधत्ते- नेति। 'तत्तदधिकरणे विशेषणतया वर्तमानस्य' इत्यत्र 'विशेषणतया' इत्यस्य 'देशानवच्छिन्नविशेषणतया' इत्येवंरूपतया विवक्षणे धूमाधिकरणे पर्वते शिखररूपदेशावच्छिन्नविशेषणतयैव वह्नयभावो वर्तते, न देशानवच्छिन्नविशेषणतयेति न वह्नयादावव्याप्तिरित्याह-न चेति- अस्य 'वर्तते' इत्यनेनान्वयः। ननु वृत्त्यनियामकसम्बन्धस्याभावप्रति. योगितानवच्छेदकत्वे यागादेः स्वर्गादिकं प्रति स्वजन्यापूर्ववत्त्वसम्बन्धेन कारणत्वं न स्यात् स्वजन्यापूर्ववत्त्वसम्बन्धस्य वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नप्रतियोगिताया अप्रसिद्धत्वादित्यत