________________
१७४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् ऽपि नोपादेयः ? द्रव्यत्व-जन्यद्रव्यत्वाधवच्छिन्नं प्रत्यपि कपालादिना हेतुतापत्तरिति 'धूमत्वाद्याश्रया यावन्तः प्रत्येकं तत्तदव्यवहितपूर्वकालावच्छेदेन' इत्युक्तम् , अत एव 'कार्यमात्रवृत्तिधर्म
निवेशे द्रव्यत्वाद्यवच्छिन्नं प्रति कपालत्वादिनाऽपि कपालादेः कारणत्वं स्यात्, तद्धर्मो द्रव्यत्वं तदाश्रयो यत्किश्चिद्धटादिस्तदव्यवहितपूर्वसमयावच्छेदेन द्रव्यत्वाद्यवच्छेदेन द्रव्यत्वाद्यवच्छिन्नाधिकरणे कपालादौ विशेषणतया वर्तमानस्य तादात्म्यसम्बन्धाच्छन्नप्रतियोगितानवच्छेदककपालत्वादिरूपवत्त्वस्य कपालादौ सत्त्वादित्याह- द्रव्यत्वेति- द्रव्यत्वं च जन्यद्रव्यत्वं च द्रव्यत्व-जन्यद्रव्यत्वे ते आदी येषां ते द्रव्यत्व-जन्यद्रव्यत्वादयः, तैरवच्छिन्नं द्रव्यत्व जन्यद्रव्यत्वाद्यवच्छिन्नमित्येवं द्रव्यत्वस्याप्यवच्छिन्नमित्यनेनान्वयः, द्रव्यत्वस्य जन्याऽजन्यवृत्तितया कार्यतानवच्छेदकतया तदवच्छिन्नं प्रतिन कस्यापि कारणत्वापादनं सम्भवतीत्यतो जन्यद्रव्यत्वादीति, आदिआदि पदाजन्यपृथिवीत्वादेरुपग्रहः । कपालादिनेत्यस्य भावप्रधाननिर्देशात् कपालत्वादिनेत्यर्थः। इति एतस्मात् कारणात् , तथा च जन्यद्रव्यत्वाद्यवच्छिन्नकारणत्वलक्षणं 'जन्यद्रव्यत्वाद्याश्रया यावन्तः प्रत्येकं तत्तदव्यवहितपूर्वकालावच्छेदेन.' इत्यादिघटितं स्यात्, तथा च जन्यद्रव्यत्वाद्याश्रययावदन्तर्गतं पटाद्यपि, प्रत्येकं तत्तदव्यवहितपूर्वकालः पटाद्यव्यवहितपूर्वकालोऽपि, तदवच्छेदेन जन्यद्रव्यत्वा. घवच्छिन्नाधिकरणे तन्त्वादौ कपालाद्यभावस्य वर्तमानस्य तादात्म्यसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकमेव कपालत्वादिकमिति न कपालादौ जन्यद्रव्यत्वाद्यवच्छिन्नकारणत्वापादनमिति। अत एव उक्तदिशा 'कार्याव्यवहितपूर्वसमयावच्छेदेन' इत्यस्य कारणत्वशरीरे निवेशादेव, यदि नित्यानित्यवृत्तिधर्मस्य कार्यतावच्छेदकत्वमाश्रीयेत तदाश्रययावदन्तर्गतं नित्यमपि, तव्यवहितपूर्वकालाप्रसिद्धया नोक्तलक्षणकारणत्वं तद्धर्मावच्छिन्नं प्रति सङ्गतिमङ्गति,