________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १७३ तन्त्ववच्छेदेन काले तन्त्वभावात् तन्तौ पटानुत्पत्तिप्रसङ्गात् । अत्र धूमत्वावच्छिन्नाव्यवहितपूर्वत्वमसिद्धम् , नहि 'धूमप्रागभावाधिकरणत्वे सति धूमप्रागभावाधिकरणसमयप्रागभावानधिकरणसमयत्वलक्षणम्' धूमत्वावच्छिन्नाव्यवहितपूर्वत्वं सम्भाव्येतापि, सर्वस्यैव समयस्य यत्किश्चिद्भूमप्रागभावाधिकरणसमयप्रागभावाधिकरणतया तदन्यत्वाभावात् , तद्धर्माश्रययत्किश्चिदव्यवहितपूर्वत्वगर्भनियमोतादात्म्येनेति- समवायसम्बन्धेन पटं प्रति तादात्म्यसम्बन्धेन तन्तुः कारणमिति कारणतावच्छेदकसम्बन्धेन तन्तुरूपकारणसम्बन्धी देशस्तन्तुरेव, इदानीं तन्तौ तन्तुरिति प्रतीत्यभावेन न तन्त्ववच्छेदेन काले तन्तुरिति यदधिकरणावच्छेदेन काले कारणं तदधिकरणावच्छेदेन काले कार्यमिति नियमत एव भवता देशनियमोऽभ्युपगत इति तन्त्ववच्छेदेन काले तन्त्वभावात् तन्तौ पटरूपकार्योत्पत्तिन स्यादित्यर्थः। 'धूमत्वाद्याश्रया यावन्तः प्रत्येकं तत्तदव्यवहितपूर्वकालावच्छेदेन' इति यदुक्तं तस्य प्रयोजनमुपदर्शयति- अत्रेति-कारणत्वलक्षणे इत्यर्थः। यदि तथा नोपादीयते तदा 'धूमत्वावच्छिन्नाव्यवहितपूर्वकालावच्छेदेन' इत्येवोपादेयम्, तथोपादानं च न सम्भवति, यतो धूमत्वावच्छिन्नाव्यवहितपूर्वत्वमसिद्धमित्यर्थः। कथं तदप्रसिद्धमित्यपेक्षायामाह - नहीति- अस्य 'सम्भाव्येतापि' इत्यने. नान्वयः। कथं नास्य सम्भावनेत्यपेक्षायामाह- सर्वस्यैवेति। तदन्यत्वाभावात् धूमप्रागभावाधिकरणसमयप्रागभावाधिकरणभिन्नत्वाभावात् । ननूक्तरीत्याऽप्रसिद्धया धूमत्वावच्छिन्नाव्यवहितकालावच्छेदेनेत्येवं. नोपादेयं किन्तु धूमत्वाश्रययत्किश्चिदव्यवहितपूर्वकालावच्छेदेनेति, धूमत्वाश्रययत्किञ्चिधूमाव्यवहितपूर्वत्वं च नाप्रसिद्धम्, तख़्मव्यक्तिप्रागभावाधिकरणत्वे सति तख़्मयक्तिप्रागभाषाधिकरणसमयप्रागभावानधिकरणसमयत्वरूपस्य तस्य तळूमोत्पत्त्यव्यवहित पूर्वसमये प्रसिद्धत्वादित्यत आह-तद्धर्माश्रयेति । तद्धर्माश्रयः' इत्यादि