________________
१७२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् कताद्वयगर्भत्वमत्राप्यावश्यकम् ? तयोरैक्यात् , कार्यतावच्छेदकसम्बन्धेन कार्यस्य व्यापकतायाः कारणताघटकत्वौचित्याच्च । न च, अस्तु धूमादेः कार्यमात्रस्य कालिकेनापि कार्यत्वं विनिगमनाभावात् , यदधिकरणावच्छेदेन काले कारणं तदधिकरणे कार्यमित्यतोऽपि देशनियमसम्भवादिति वाच्यम् , तादात्म्येन तन्तुसम्बन्धिसहस्रतन्तुकपटस्य समवायेन भावेन व्यभिचारः स्यादिति बोध्यम् ।
ननु यथा तत्तदव्यवहितपूर्वकालावच्छेदेन तत्तत्कार्याधिकरणे विशेषणतया वर्तमानस्याभावस्य कारणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकधर्मवत्त्वं कारणत्वम् , तथा तत्तत्कार्याधिकरणावच्छेदेन तत्तदव्यवहितपूर्वकाले विशेषणतया वर्तमानस्याभावस्य कारणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकधर्मवत्त्वं कारणत्वमित्यपि सम्भवति, यथा पूर्वत्र देशकालयोरुभयोरपि प्रवेशाद् दैशिक-कालिकव्यापकताद्वयगर्भत्वं तथाऽत्रापीन्याशङ्कय प्रतिक्षिपतिन चेति । निषेधहेतुमुपदर्शयति- तयोरक्यादिति- पूर्वदर्शितकारणत्वाऽनन्तरदर्शितकारणत्वयोरैक्यादित्यर्थः, तथा चाष्टापत्तिरेवेति भावः। व्यापकतागर्भ हि कारणत्वम् , व्यापकत्वं च तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वमिति कार्यव्यापकत्वे कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणवृत्तित्वमेवाभावे प्रविष्टमिति प्रथमस्यैव कार्याधिकरणवृत्त्यभावघटितस्य समीचीनत्वादित्याहकार्यतावच्छेदकसम्बन्धेनेति । ननु धूमादेः कालिकसम्बन्धेनापि कार्यत्वमस्तु, तथा च कालिकसम्बन्धस्यापि कार्यतावच्छेदकतया 'कालिकसम्बन्धेन कार्याधिकरण' इत्याद्यपि कारणत्वलक्षणं सम्भवति विनिगमनाविरहात्, यदधिकरणदेशावच्छेदेन काले कारणं तदधिकरणदेशावच्छेदेन कार्यमित्यभ्युपगमेन कारणाधिकरणदेशस्यैव कार्याधिकरणदेशत्वमिति देशनियमस्यापि सम्भवादित्याशङ्कय प्रतिक्षिपति- न चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः। निषेधे हेतुमाह