________________
अनेकान्तव्यवस्थाप्रकरणम् ]
क्षणे तदसच्वेऽपि न क्षतिः । न च ' तत्तद्धूमाद्यधिकारणावच्छेदेन तत्तदव्यवहितपूर्वकाले विशेषणतया ०' इत्यादिकमप्यस्त्विति व्यापनुसरणम्, कालिकेन तत्तत्कार्याधिकरणं यदि क्षणरूपकाल एव भवेत् तदा स्यादुक्तदिशाऽप्रसिद्धिः, न चैवम्, किन्तु तत्तकार्याव्यवहितपूर्व कालमारभ्य तत्तत्कार्याधिकरणक्षणपर्यन्तस्थायिस्थूलकालोऽपि कालिकसम्बन्धेन तत्तत्कार्याधिकरणं भवति, तस्य स्थूलकालस्य तत्तत्कार्याव्यवहितपूर्वकालोऽपि समकालीन इति तादृशस्थूलकालवृत्तितायां तत्तत्कार्याव्यवहितपूर्व कालस्यावच्छेदकत्वसम्भवेन तदवच्छेदेन तत्तत्कार्याधिकरणस्थूलकाले वर्तमानत्वमभावस्य सुलभमिति तत्प्रतियोगितानवच्छेदकधर्मवत्त्वलक्षणं कारणत्वं न तत्राऽप्रसिद्धमित्यर्थः । तेन तत्तत्कार्याधिकरणस्थूलकाले तत्तत्कार्याव्यवहितकालावच्छेदेन वर्तमानत्वस्याभावे सुलभत्वेन, अस्य 'न क्षतिः ' इत्यनेनान्वयः । तदसत्त्वेऽपि तत्तत्पूर्वकालावच्छेदेनाभावाऽसत्त्वेऽपि । सहस्रतन्तुकपटादिस्थले द्वितीय-तृतीयादितन्तुसंयोगानामपि तत्पटं प्रति असमवायिकारणत्वेन द्वितीय तृतीयादिसंयोगान्तरं तत्पटोत्पत्तिवारणाय सहस्रतन्तुकतत्पटद्रव्यं प्रति नवशतोत्तरनवनवतितमतन्तुना समं यः सहस्रसङ्ख्यापूरकतन्तोः संयोगः स चरमसंयोगस्तस्य कारणत्वम्, तस्य द्वितीय तृतीयादितन्तुसंयोगाद्युत्पत्तिकालेऽभावान्न पूर्व सहस्र तन्तुकपटोत्पत्तिः, तत्र यद्यपि समवायसम्बन्धेन कार्यद्रव्यं प्रति समवायसम्बन्धेनावयवसंयोगस्य कारणत्वमित्येतावतैवासमवायिकारणताऽवयवसयोगस्य कार्यद्रव्यं प्रति निर्वहति, तथापि सामान्यतः समवायेन पटत्वावच्छिन्नं प्रति समवायेन तन्तुसंयोगत्वावच्छिन्नस्य कारणत्वम्, विशिष्य तु कालिकसम्बन्धेन सहस्रतन्तुकतत्पटं प्रति कालिकसम्बन्धेन निरुक्तान्त्यसंयोगस्य हेतुत्वमित्येव स्वीकरणीयम्, न तु समवायेन सहस्रतन्तुकतत्पदं प्रति समवायेन निरुक्तचरमतन्तुसंयोगस्य हेतुत्वम्, तथा सति निरुक्तचरम संयोगस्य समवायेन समवायेन प्रथम- द्वितीयादितन्तुष्वभावेन तत्र
[ १७१