________________
१७० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् वस्तुतो धूमत्वाद्याश्रया यावन्तः प्रत्येकं तत्तदव्यवहितपूर्वकालावच्छेदेन तत्तदधिकरणे विशेषणतया वर्तमानस्याभावस्य कारणतावच्छेदकतत्तत्सम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकरूपवच्चं तत्, तद्रव्ये तत्तच्चरमसंयोगस्य चाक्षुषादौ चक्षुरादेश्व कालिकेनैव हेतुत्वेऽपि तत्तत्कार्याधिकरणे स्थूलकाले तत्तत्कार्याव्यवहितप्राक्कालावच्छेदेन वर्तमानत्वमभावस्य सुलभम् तेन तत्कार्याधिकरण
,
प्रतियोगिताकाभावः 'संयोगेन घटो नास्ति' इति प्रतीतिसिद्धः, तस्य तन्निरूपिता या कारणतावच्छेदकाभूतसंयोगसम्बन्धावच्छिन्ना प्रतियोगिता तदवच्छेदकं घटत्वं तदनवच्छेदकं वह्नित्वं तद्वत्त्वं वह्नौ समस्तीति, अत्र कार्याधिकरणे येन सम्बन्धेन वर्तमानं सद् यत् कारणं भवति तन्निष्ठा कारणता तत्सम्बन्धावच्छिन्ना, स च सम्बन्धस्तन्निष्ठकारणतावच्छेदको बोध्यः । तत् कार्यनियतपूर्ववर्तित्वलक्षणं कारणत्वम् ।
ननु कालिकसम्बन्धेन कार्य-कारणभावस्थले कालिकसम्बन्धेन कार्याधिकरणं कार्योत्पत्त्याद्यधिकरणक्षण एव तत्र कार्याव्यवहितपूर्व कालावच्छेदेन वर्तमानत्वं न कस्याप्यभावस्य सम्भवति, पूर्वकालस्य तदधिकरणक्षणासमानकालीनतया तत्क्षणवृत्तितायामवच्छेदकत्वासम्भवादिति तद्व्यवहितपूर्वकालानवच्छेदेन तदधिकरणक्षणे वर्तमानस्याभावस्याप्रसिद्धया तत्प्रतियोगितानवच्छेदकधर्मवत्त्वलक्षणं कारणत्वमपि तत्राप्रसिद्धमित्यत आह- तत्तद्रव्य इति तत्तत्पटादिद्रव्य इत्यर्थः । तत्तच्चरमसंयोगस्य तत्तदन्त्यसंयोगस्य, अस्य 'कालिकेनैव हेतुत्वेऽपि' इत्यनेनैवान्वयः, अन्यसम्बन्धेन कार्य-कारणभावस्थले अन्यसम्बन्धेन कार्याधिकरणं स्थिरद्रव्यम्, पूर्वकालस्यापि समानकालीनतया तद्वृत्तितायां पूर्वकालस्यावच्छेदकत्वसम्भवेन पूर्वकालावच्छेदेन तादृशस्थिरद्रव्यवर्तमानत्वमभावस्य सुलभमेवेति न तत्राप्रसिद्धिशङ्कोदयसम्भव इति कालिकेन कार्य-कारणभावस्थला