________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६७ सफलत्वात् , रासभत्वादिना त्वन्यथासिद्धेरेवाहेतुत्वात् । न च तद्रा. सभत्वादिनापि तत एवाहेतुत्वम् , तद्भूमादिकं प्रति तद्विरुद्धदिकालतद्रासभादेस्तत्कारणासहभूतत्वेन यथोक्तान्यथासिद्ध्यभावात् ,
धूमत्वाश्रययत्किञ्चिद्भूमाव्यवहितपूर्ववर्तित्वाद् धूमं प्रति तद्रासभत्वा. दिना रासभादेरपि कारणत्वमापद्येत, नियमतोऽव्यवहितपूर्ववर्तित्वस्य तत्र प्रवेशे च तस्य कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वरूपतया तद्रासमत्वस्य धूमाव्यवहितप्राक्क्षणावच्छेदेन धूमसमानाधिकरणात्यन्ताभावप्रतियोगिताया अवच्छेदकत्वेन न तदनवच्छेदकत्वमिति तद्रासभत्वमादाय निरुक्तस्य नियमतोऽव्यवहितपूर्ववर्तित्वस्य धूमं प्रति रासभादेरभावेन न कारणत्वप्रसङ्ग इति तद्रासभत्वादिना रासभादिव्यावर्तकत्वेनास्य नियमांशनिवेशस्य सफलत्वादित्यर्थः। ननु धूमाव्यवहितपूर्वक्षणावच्छेदेन धूमाधिकरणे रासभत्वावच्छिन्नस्य कालिकेन सत्तया रासभत्वस्य तवृत्त्यभावप्रतियोगितानवच्छेदकत्वेन तद्वत्त्वाद् रासभस्य धूमं प्रति कारणत्वापत्तिनियमांशनिवेशेऽपीत्यत आह- रासभत्वादिनेति- तथा च रासभत्वादिना धूमं प्रति नियमतोऽव्यवहितपूर्ववर्तित्वेऽपि, अन्यथासिद्धेरेव- अन्यथासिद्धिशून्यत्वस्य कारणलक्षणसन्निविष्टस्याभावादेव, अहेतुत्वात्- कारणत्वाभावादित्यर्थः। ननु धूमत्वावच्छिन्नं प्रति तद्रासभत्वादिनाऽप्यन्यथासिद्धेरेव न रासभादेः कारणत्वापत्तिरिति नियमांशो व्यर्थ एवेत्याशङ्कय प्रतिक्षिपति- न चेति । तत एव अन्यथासिद्धेरेव । 'अन्यत्रफ्लप्तनियतपूववर्तिन एव कार्यसम्भवे तत्सहभूतमन्यथासिद्धम्' इति तृतीयान्यथासिद्धिमत्त्वादेव तद्रासभत्वादिना रासभादेधूमादिकं प्रत्यन्यथासिद्धत्वं वाच्यम्, न च तत् सम्भवति, तद्रासभाद्यसमानकालीनस्य तद्रासभादिविरुद्ध दिगवर्तितळूमादेरपि धूमत्वाद्यवच्छिन्नतया तत्कारणसहभूतत्वस्य तद्विरुद्धदिक कालस्य तद्रासभा