________________
१६६ ] .
[ तत्त्वबोधिनीविवृतिविभूषितम् वर्तितावच्छेदकरूपवच तत्त्वमित्यदोषात् , धूमाद्यनुपधायकवह्वथादिसाधारण्यायाऽवच्छेदकरूपनिवेशः, धूमादौ रासभादेवूमध्वंसादेव हेतुत्ववारणाय नियतपूर्ववर्तीति, नियमतोऽव्यवहितपूर्वकालवीत्यर्थः। न च धूमाव्यवहितपूर्वकाले कचिद्रासभादेरपि सत्त्वाद् एतद् रासभाद्यव्यावर्तकम् ? तद्रासभत्वादिना रासभादिव्यावर्तकत्वेनास्य अन्यथासिद्धयनिरूपकं सद् नियतपूर्ववर्तितावच्छेदकरूपं कपालत्वादि, तद्वत्त्व कपालादावस्तीति कारणत्वं तस्य निर्वहतीत्यर्थः। येन वह्नयादिना धूमादिकं नोत्पद्यते तत्र धूमादिनियतपूवतित्वस्याभावाद् धूमादिकारणत्वं न स्यादतो. नियतपूर्वांततावच्छेकरूपनिवेश इत्याहधूमायनुपथा कति-तथा च नियतपूर्ववतितावच्छेदकवह्नित्वादिरूपवत्त्वस्य धूमाद्यनुपधायकवढ्यादावपि सत्त्वात् कारणत्वं सम्भवतीत्यर्थः । अन्यथासिद्धानरूपकधर्मवत्त्वस्य कारणत्वलक्षणत्वे तद्धटत्वाद्यवच्छिन्नं प्रति अन्यथासिद्धिनिरूपकस्यापि रासभत्वादेर्घटत्वाद्यवच्छिन्नं प्रत्यन्यथासिद्धयनिरूपकतया तद्वत्त्वमादाय रासभादेः कारणत्वं स्यादतो नियतत्वस्य निवेशः, धूमध्वंसत्वादिकं धूमत्वाद्यवच्छिन्नं प्रत्यन्यथासिद्धयनिरूपकं धूमस्योत्तरकाले नियमतस्तद्ध्वंसो भवत्येवेति धूनियततावच्छेदकमपीति तद्वत्त्वाद् धूमध्वंसादेधूमादिकं प्रति कारणत्वं प्रसज्येतेत्यतो नियतपूर्ववर्तितावच्छेदकनिवेश इत्याहधूमादाविति । रासमत्वादिकमपि घटत्वाद्यर्वाच्छन्नस्य पूर्ववर्तितावच्छेदकं स्यादेव, सर्वेषामपि घटादीनां यदा कदाचित् पूर्वकाले रासभस्य यस्य कस्यचित् सत्त्वसम्भबादत आह- नियमतोऽव्यवहितेति । धूमाद्यव्यवहितकालेऽपि नियमतः क्वचिद्रासभादिसत्त्वादेवमपि तत्र कारणत्वापत्तिः स्यादित्याशङ्कय प्रतिक्षिपति- न चेति । एतत् 'नियमतोऽ व्यवहित०' इत्यादि विशेषणम् । निषेधे हेतुमाह- तद्रासभत्वादिनेतियदि नियमतोऽव्यवहितपूर्ववर्तित्वं कारणत्वलक्षणे न निवेश्यते किन्त्वव्यवहितपूर्ववर्तित्वमात्रं तदा तद्रासभत्वादिना रासभादेरपि