________________
अनेकान्तव्यवस्थाप्रकरणम् ]
. [ १६५ गुणं प्रतीति वाच्यत्वादिति दिग ॥५॥
तृतीय-चतुर्योरभेदात् पञ्चम्याश्च द्वितीयस्यामन्तर्भावात् विधवाऽन्यथासिद्धिरिति केचित् ।
परे तु-"एकैवान्यथासिद्धिः 'अवश्यक्लृप्त०' इत्याद्या, नानाविधलाघवकृतावश्यकत्वप्रपश्चार्थमन्याभिधानम्" इत्याहुः ॥ ___ अथ कपालादेव्यत्वादिनान्यथासिद्धत्वात् कपालत्वादिनापि हेतुत्वं न स्यादिति चेत् ? न-अन्यथासिद्धियनिरूपकनियतपूर्वमान्यथासिद्धिकल्पना व्यर्थत्याशङ्कां प्रतिक्षिपति- नापि द्वितीयेनेति । निषेधहेतुमाह- तत्रेति- द्वितीयान्यथासिद्धावित्यर्थः । फलाननुगुणं प्रतीति वाच्यत्वात् 'अन्यं प्रति' इत्यनेन 'फलाननुगुणमन्यं प्रति' इत्यस्य विवक्षितत्वात्, तथा च कुलालो घटरूपफलानुगुण पवेति 'कुलालं प्रति' इत्यस्य ग्रहीतुमशक्यत्वान्न द्वितीयान्यथासिद्धिः कुलालपितुरिति तत्सङ्ग्रहाय पञ्चमान्यथासिद्धिकल्पनाऽऽवश्यकीत्यर्थः ॥५॥
अन्यथासिद्धित्रैविध्यवादिमतमुपदर्शयति- तृतीयेति- स्पष्टम् । अन्यथासिद्धिरेकैवेति मतमुपदर्शयति- परे विति-अस्य 'आहुः' इत्यनेन सम्बन्धः। 'अवश्यक्लप्त०' इत्यायेति-अवश्यक्लप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वमिति तृतीयान्यथासिद्धित्वेनोपदर्शिताऽ. न्यथासिद्धिरेकैव, तेनैव सर्वेषामन्यथासिद्धानां सङ्ग्रहादित्यर्थः । किमर्थ तर्हि प्राचां पश्चान्यथासिद्धिनिरूपणमित्यपेक्षायामाहनानाविधेति।
नन्वनन्यथासिद्धत्वे सति नियतपूर्ववर्तित्वं कारणत्वं न सम्भवति, तथा सति व्यापकधर्मेण द्रव्यत्वादिनाऽन्यथासिद्धत्वस्यैव कपालादौ सत्त्वेन सत्यन्ताऽभावात् कपालादेः कारणत्वमेव न स्यादित्याशङ्कते- अथेति । प्रतिक्षिपति- नेति-द्रव्यत्वादिनाऽन्यथासिद्धत्वे द्रव्यत्वादिकमन्यथासिद्धिनिरूपकम्, न तु कपालत्वादिकं तथेति