SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १६४ ] [ तत्त्वबोधिनीविवृतिविभूषितम् रक्षायै तत्र 'यस्य' इति यत्पदार्थे 'येन' इति यत्पदार्थनियतपूर्ववर्तिभिन्नस्येति विशेषणध्रौव्यात् नापि द्वितीयेन, तत्र फलाननु " पिता, आयेन प्रथमान्यथासिद्धत्वेन, न च संगृह्यत इत्यन्वयः । भ्रमिजनकत्वादिना दण्डस्य घटं प्रति जनकत्वमपि यथाश्रुतप्रथमान्यथासिद्धिसद्भावतो न स्यात्, यतो भ्रमणेन सहैव भ्रमिजनकस्य दण्डस्य घटं प्रति पूर्ववर्तित्वं गृह्यत इत्येवमाद्यान्यथासिद्धिलक्षणस्य यथाश्रुत. स्यास्ति सद्भाव इति, तस्मादाद्यान्यथासिद्धिलक्षणमित्थं परिष्करणीयम् - येन सहैव यत्पदार्थनियतपूर्ववर्तिभिन्नस्य यस्य यं प्रति पूर्ववर्तित्वं गृह्यते तेन तस्यान्यथासिद्धिरिति, यत्पदार्थनियत' इत्यत्र यत्पदार्थच 'येन' इति तृतीयान्तयत्पदार्थों ग्राह्यः तथा च ' येन' इत्यनेन 'भ्रमणेन' इत्यस्य ग्रहणे यत्पदार्थो भ्रमणमेव, तन्नियतपूर्ववत्यैव भ्रमिजनको दण्ड इति तद्भिन्नत्वस्य भ्रमिजनकदण्डेऽभावाद् 'यस्य' इत्यनेन 'भ्रमिजनकदण्डस्य' इत्यस्य ग्रहणं न सम्भवतीति नाद्यान्यथासिद्धिस्तस्य, एवं च 'येन' इत्यनेन 'कुलालेन' इत्यस्य ग्रहणे यत्पदार्थः कुलाल पव, तन्नियतपूर्ववर्त्येव कुलालपितेति तद्भिन्नत्वं न कुलालपितुरिति 'यत्पदार्थनियतपूर्ववर्तिभिन्नस्य यस्य' इत्यनेन 'कुलालपितुः' इत्यस्य ग्रहणासम्भवेन नोक्तलक्षणं कुलालपितरीति प्रथमेन गतार्थत्वाऽसम्भवात् पञ्चमान्यथासिद्धिकल्पनाssवश्यकीति निषेधहेतुमुपदर्शयति- भ्रमिजन करवादिनेति । हेतुत्वरक्षायै घटं प्रति दण्डस्य कारणत्वरक्षायै । तत्र प्रथमान्यथासिद्धिलक्षणे । 'यस्य' इति यत्पदार्थे 'यस्य' इत्येतद्घटकयत्पदार्थे । 'येन' इति यत्पदार्थेति - 'येन' इत्येतद्भटकयत्पादार्थेत्यर्थः । नन्वेवमपि अन्यं प्रति पूर्ववर्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववर्तित्वं गृह्यते तं प्रति तदन्यथासिद्धमिति द्वितीयान्यथासिद्धयैव कुलालपितुरन्यथासिद्धत्वं सम्भवति, यतोऽन्यं प्रति कुलालं प्रति कुलालपितुः पूर्ववर्तित्वे ज्ञाते एव घटं प्रति पूर्ववर्तित्वं गृह्यत इति, तथा च कुलालपितुरन्यथासिद्धत्वाय पञ्च
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy