________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १६३ स्वजन्यस्य यं प्रति पूर्ववर्तित्वे ज्ञाते स्वस्य तत्वं ज्ञायते तं प्रति खमन्यथासिद्धमिति पश्चमम् , यथा-घटं प्रति कुलालेन तत्पिता, घटं प्रत्यस्य साक्षादहेतुत्वेन कुलाले घटजनकत्वं ज्ञात्वैव तद्वारा तस्य पूर्वभावग्रहात् , तदुक्तं मणिकृता- “यत्र जन्यस्य पूर्वभावं ज्ञात्वा जनकस्य तगृहस्तत्र जन्येन जनकमन्यथासिद्धम् , यत्र तु जनकस्य पूर्वभावं ज्ञात्वा जन्यस्य तगृहस्तत्र तद्वारा जनकत्वं यागस्येवापूर्वद्वारा" इति । न चायमान सगृह्यते, भ्रमिजनकत्वादिना हेतुत्व
पञ्चमान्यथासिद्धिं निरूपयति- स्वजन्यस्येति । तत्त्वं पूर्ववर्तित्वम् । उदाहरति- यथेति । लक्षणसङ्गमनमित्थम् - स्वजन्यस्य कुलालपितृजन्यस्य कुलालस्य, यं प्रति घटं प्रति, पूर्ववर्तित्वे ज्ञाते सति, स्वस्थ कुलालपितुः, घटं प्रति पूर्ववर्तित्वं ज्ञायत इति तं प्रति घटं प्रति, स्वं कुलालपिताऽन्यथासिद्ध इति । कथं कुलालस्य घटपूर्ववर्तित्वे शाते सत्येव कुलालपितुर्घटपूर्ववर्तित्वं ज्ञायत इत्यपेक्षायामाह- घट प्रतीति। अस्य कुलालपितुः। साक्षादहेतुत्वेन कुलालमव्यापारीकृत्य हेतुत्वाभावेन। तद्घारा कुलालद्वारा। तस्य कुलालपितुः। उक्तार्थे चिन्तामणिग्रन्थरत्नप्रणेतुर्गङ्गेशोपाध्यायस्य सम्मति दर्शयति- तदुक्तमिति । यत्र घटे, जन्यस्य कुलालस्य, पूर्वभावं पूर्ववर्तित्वम् , ज्ञात्वा ज्ञात्वैव, जनकस्य कुलालपितुः, तद्ग्रहः पूर्ववर्तित्वग्रहः, तत्र घटे, जन्येन कुलालेन, जनक जनकः कुलालपिता, अन्यथासिद इत्यर्थः। यत्र तु स्वर्गादौ पुनः, जनकस्य अपूर्वजनकस्य यागस्य, पूर्व भावं ज्ञात्वा पूर्ववर्तित्वं ज्ञात्वा, जन्यस्य यागजन्यस्यापूर्वस्य, तद्ग्रहः तत्पूर्ववर्तित्वग्रहः, तत्र स्वर्गादौ, तवारा अपूर्वद्वारा । ननु कुलालेन सहैव कुलालपितुर्घटं प्रति पूर्ववर्तित्वं गृह्यत इति कुलालेन कुलालपितुर्घटं प्रत्यन्यथासिद्धिरित्येवं प्रथमान्यथासिद्धयैव कुलालपितुरन्यथासिद्धत्वसम्भवात् पञ्चमान्यथासिद्धिकल्पना तदर्थ व्यर्थत्याशङ्कां प्रतिक्षिपति-न चेति- अयं कुलाल