________________
१६२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् सम्बन्धलाघवाद् दण्डादिनाऽऽवश्यकेन दण्डरूपादेरित एवान्यथासिद्धौ प्रथमवैयर्थ्यम् ? तल्लाघवकृतावश्यकत्वस्यात्राप्रवेशात् ॥३॥
यमादायव यस्यान्वय-व्यतिरेको गृह्येते तेन तद् अन्यथासिद्धमिति चतुर्थम् , यथा-घटं प्रति दण्डेन दण्डत्वम् , आद्येऽवच्छेदकेनावच्छेद्यस्यात्र चावच्छेद्येनावच्छेदकस्यान्यथासिद्धिरिति भेदः ॥४॥ देरन्यथासिद्धत्वे तदर्थम् 'येन सहैव यस्य यं प्रति पूर्ववर्तित्वं गृह्यते तदन्यथासिद्धम्' इति प्रथमान्यथासिद्धपरिकल्पनं व्यर्थमित्याशङ्कां प्रतिक्षिपति-न चेति । एवम् उक्तप्रकारेण । इत एव तृतीयान्यथासिद्धित एव । निषेधे हेतुमाह-तलाघवकृतेति- सम्बन्धलाघवकृतेत्यर्थः। भत्र तृतीयान्यथासिद्धिलक्षणे सम्बन्धलाघवकृतावश्यकत्वस्य तृतीयान्यथासिद्धिलक्षणे प्रवेशे प्रथमान्यथासिद्धरनेनैव गतार्थत्वे प्रथमान्यथासिद्धिमुपादाय प्राचां पश्चान्यथासिद्धिप्रवादो भज्यतेति तत्प्रवाद. रक्षणमेव तदप्रवेशबीजमिति भावः ॥३॥
चतुर्थान्यथासिद्धिं निरूपति- यमदायैवेति। उदाहरति- यथेति। यमदायैव दण्डमादायव, यस्य दण्डत्वस्य, अन्वय-व्यतिरेको गृह्येते, तेन दण्डेन तद् दण्डत्वमन्यथासिद्धमित्येवं लक्षणसमन्वयः। प्रथमान्यथासिद्धितस्तुरीयान्यथासिद्धलक्षण्यं दर्शयति- आद्य इति-प्रथमान्यथासिद्धौ दण्डरूपनिष्ठकारणत्वे दण्डस्य विशेषणत्वादवच्छेदकत्वं रूपस्य विशेष्यत्वादवच्छेद्यत्वं 'दण्डरूपं घटपूर्ववर्ति' इति प्रतीतौ भासत इत्यवच्छेदकेन दण्डेनावच्छेद्यस्य तद्रूपस्यान्यथासिद्धिः, चतुर्थे दण्डत्वस्य कारणत्वे दण्डत्वस्याखण्डस्य पूर्ववर्तित्वग्रहे न किमप्यवच्छेदकतया भासत इति 'दण्डः घटपूर्ववर्ती' इत्येव ग्रहो दण्डत्वस्यापि पूर्ववर्तित्वग्रहरूपो वाच्यः, तत्र विशेषणतया भासमानस्य दण्डत्वस्थावच्छेदकत्वं विशेष्यतया भासमानस्य दण्डस्यावच्छेद्यत्वमित्यघच्छेद्येन दण्डेनावच्छेदकस्य दण्डत्वस्यान्यथासिद्धिरित्येवं प्रथमचतुर्थान्यथासिद्धयोर्भेद इत्यर्थः ॥४॥