________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ १६१ भावेऽप्यनेकद्रव्यवत्वं द्रव्यचाक्षुषादौ तेनान्यथासिद्धम् , महत्त्वस्य शरीरलाघवेनावश्यकत्वात्, अत एव च व्यापकधर्मावच्छिन्नस्य व्याप्यधर्मावच्छिन्नेनान्यथासिद्धिः, कारणाल्पत्वलाघवात् । न चैवं
यत्र यत्र अपकृष्टमहत्त्वं तत्र तत्रानेकद्रव्यवत्त्वमपि समस्तीति अनेकद्रव्यवत्त्वं विहाय नान्यत्र क्लप्तं महत्त्वमिति महत्त्वस्यान्यत्र क्लप्तत्वाभावेऽपि लाघवतोऽवश्यक्लप्तं महत्त्वमिति तेन द्रव्यचाक्षुषादावनेकद्रव्यवत्त्वमन्यथासिद्धमित्यर्थः। केन लाघवेन महत्त्वस्यावश्यक्लप्तत्वमित्यपेक्षायामाह-महत्त्वस्येति-महत्त्वत्वं सामान्यम् , तद्वद् महत्त्वम्, अनेकद्रव्यवत्वं चानेकद्रव्याश्रिताश्रितत्वमित्यनेकद्रव्यवत्त्वशरीरापेक्षया महत्त्वशरीरं लघुभूतमिति शरीरलाघवेन महत्त्वस्यावश्यक्लप्तत्वमित्यर्थः। अत एव लाघवतोऽवश्यक्लप्तत्वस्य स्वीकारादेव । व्यापकधर्मावच्छिन्नस्य द्रव्यत्वरूपव्यापकधर्मावच्छिन्नस्य । व्याप्यधर्मावच्छिन्नेन दण्डत्वरूपव्याप्यधर्मावच्छिन्नेन । अन्यथासिद्धिः घटकार्य प्रत्यन्यथासिद्धिः । व्यापकधर्मावच्छिन्नापेक्षया व्याप्यधर्मावस्छिन्ने किंकृतं लाघवम्? उभयत्र कारणतावच्छेदकत्वस्य सामान्य पव भाषादित्यपेक्षायामाह- कारणाल्पत्वलाघवादिति-द्रव्यत्वावच्छिन्नस्य कारणत्वे कारणतावच्छेदकधर्मवत्त्वरूपस्वरूपयोग्यतालक्षणं कारणत्वं द्रव्यमात्र एव स्यादिति बहूनि द्रव्याणि कारणानि स्युः, दण्डत्वाघच्छिन्नस्य कारणत्वे तु कारणतावच्छेदकदण्डत्ववत्त्वरूपस्वरूपयोग्यतालक्षणं कारणत्वमल्पीयसामेव दण्डानामिति कारणाल्पत्व. लाघवाद् दण्डस्य दण्डत्वेन घटं प्रति कारणत्वं द्रव्यत्वेनान्यथासिद्धिरित्यर्थः। ननु दण्डस्य घटं प्रति जनकत्वं स्वजन्यभ्रमिजन्यत्वसम्बन्धेन, दण्डरूपस्य तु स्वाश्रयजन्यभ्रमिजन्यत्वसम्बन्धेनेति दण्डरूपस्य कारणतावच्छेदकसम्बन्धापेक्षया दण्डस्य सम्बन्धो लघुभूत इति सम्बन्धकृतलाघवादवश्यक्लप्तनियतपूविर्तिनो दण्डस्य सहभूतत्वाद् दण्डरूपादिकमन्यथासिद्धौमति तृतीयान्यथासिद्धयैव दण्डरूपा.
૧૧