________________
१६० ]
[ तत्त्वबोधिनीविवृत्तिविभूषितम् भावः किं नान्यथासिद्धः पृथगन्वयव्यतिरेकसाहित्यराहित्ययोरुभयत्र तौल्यात् , मैवम्-'अन्यत्र क्लप्त०' इत्यस्य 'अवश्यक्लप्त०' इत्यर्थकरणात् , अवश्यक्लप्तश्च गन्धप्रागभाव एव, गन्धरूपप्रतियोग्युपस्थितौ शीघ्रोपस्थितिलाघवात् , इत एव महत्त्वस्यान्यत्र क्लप्तत्वातद्वारणाय सत्यन्तम् , तथा च दण्ड-चक्रादीनां पृथगन्वय-व्यतिरेकवत्त्वस्यैव भावेन तद्राहित्याभावान्नान्यथासिद्धिप्रसङ्गः । इत्थं तृतीयान्यथासिद्धिनिर्वचने परः शङ्कते- हन्त ! एवमिति- गन्धप्रागभावेन रूपभागभावस्यान्यथासिद्धीकरणे यथा पृथगन्वय-व्यतिरेकराहित्यं रूपप्रागभावे, गन्धप्रागभावसत्त्वे नियमतो रूपप्रागभावसत्त्वमिति कृत्या, तथा रूपप्रागभावसत्त्वे नियमतो गन्धप्रागभावसत्त्वमित्यतो गन्धप्रागभावेऽपि पृथगन्वय-व्यतिरेकराहित्यं समस्ति, यथा चान्यत्रक्लप्तनियतपूर्ववर्तिताकस्य गन्धप्रागभावस्य साहित्यं रूपप्रागभावे, तथाऽन्यत्रक्लप्तनियतपूर्ववर्तिताकस्य रूपप्रागभावस्य साहित्यं गन्धप्रागभावेऽपीत्युभयत्र लक्षणसद्भावाद् गन्धप्रागभावेन पाकजगन्धं प्रति यथा रूपप्रागभावोऽन्यथासिद्धस्तथा तं प्रत्येव रूपप्रागभावेन गन्धाभावोऽप्यन्यथासिद्धः स्यादित्यर्थः। समाधत्ते- मवमिति । गन्ध प्रति गन्धप्रागभाव एवावश्यक्लप्तो न रूपप्रागभाव इत्यत्र किं विनिगमकमित्यपेक्षायामाह- गन्धरूपेति- यस्य कारणत्वकल्पने लाघवं सोऽवश्यक्लप्त इति, लाघवं च शरीरकृतं सम्बन्धकृतमुपस्थितिकृतं चेति, प्रकृते गन्धं प्रति कारणत्वविचारे गन्धरूपप्रतियोगिज्ञानसद्भावाद् गन्धप्रागभावो झटित्युपस्थितो भवति, गन्धरूपसह. चरितज्ञानतश्च रूपात्मकप्रतियोगिन उपस्थितौ रूपप्रागभावोपस्थितिर्भवतीति रूपप्रागभावस्तदपेक्षया विलम्बोपस्थितिक इत्येव मुपस्थितिकृतलाघवसद्भावाद् गन्धप्रागभाव एवाऽवश्यक्लप्तनियतपूर्ववर्तिताक इति तत्सहभूतत्वाद् रूपप्रागभावस्य पाकजगन्धं प्रत्यन्यथासिद्धत्वमित्यर्थः। इत एव लाघवतोऽवश्यक्लप्तत्वस्यादरणादेव,