________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १५९
तत्सह भूतरूपप्रागभावादि पाकजगन्धं प्रत्यन्यथासिद्धम्' यथावाघटान्तरं प्रति क्लृप्तपूर्ववर्तिताकदण्डादिजातीयेन तत्सहभूतं तद्रा. सभादिकं तद्घटादौ, दण्डादिना चक्रादेर्मिंथोऽन्यथासिद्धिवारणायोक्तम्- 'कार्यसम्भवे' इति । न च पञ्चम्यर्थहेतुत्वप्रवेशे आत्माश्रयः १ 'पृथगन्वय- व्यतिरेकराहित्ये सत्यन्यत्रक्लप्स नियतपूर्ववर्तिताक सहभूतम्' इत्यर्थस्य वाच्यत्वात् हन्त ! एवं रूपप्रागभावेनैव गन्धप्रागउदाहरणान्तरमाह - यथा वेति । घटान्तरं प्रति रासभा समवधाने दण्ड- चत्रादितो जायमानघटं प्रति । तत्सहभूतं दण्डादिजातीयसहभूतम् । तदाविति घटत्वावच्छिनं प्रति नियत पूर्ववर्तित्वाभावादेव रासभस्य न कारणत्वसम्भव इति न घटत्वावच्छिने तद्रासभादेरन्यथासिद्धत्वमित्यभिसन्धाय 'तद्वटादो' इत्युक्तम्, 'अन्यथासिद्धम्' इत्यनुषज्यते । अन्यत्र कुप्तनियतपूर्ववति प्रत्येकं दण्डादि तत्सहभूतं चत्रादि, एवमन्यत्र क्लृप्तनियतपूर्ववर्ति चक्रादि तत्सहभूतं दण्डादीति कृत्वा सर्वेषां दण्ड- चक्रादीनामन्यथासिद्धत्वं प्रसज्यत इत्यत उक्तम्- 'कार्यसम्भवे ' इति । दण्ड- चक्रादीनां मध्यादेकैकमात्र सत्त्वतो न कार्यसम्भवः, किन्तु समग्रादेव दण्ड-चक्रादित इति तत्सहभूतत्वं तद्भिन्न एवेति न दण्डादिपूक्तान्यथासिद्धिप्रसङ्ग इत्याह- दण्डादिनेति । ननु ' अन्यत्र क्लृप्तनियतपूर्ववर्तिनः' इत्यत्र पञ्चम्यर्थः कारणत्वम्, तस्यान्यथासिद्धिशरीरे प्रवेशः, अन्यथासिद्धेश्च कारणत्वघटकान्यथासिद्धिशून्यत्वे प्रतियोगिविधया प्रवेश इत्येवमन्योन्याश्रये परम्परया कारणत्वस्य कारणत्वापेक्षत्वादात्माश्रयोऽपि स्यादित्याशङ्कां प्रति न चेति । कारणत्वाऽघटित निरुक्तान्यथासिद्धिनिर्वचनेन तत्परिहारहेतुमुपदर्शयति- पृथगन्वयव्यतिरेकराहित्ये सतीति- अन्यत्र क्लृप्तनियतपूर्ववर्तिताकस्य चक्रस्य सक्षभूतत्वं चक्रादौ समस्ति, अन्यत्र क्लृप्तनियतपूर्ववर्तिताकस्य चक्रस्य सहभूतत्वं च दण्डादौ समस्तीत्येवं सर्वेषां दण्ड-चक्रादीनामन्यथासिद्धत्वं प्रसज्येतेति