________________
१५८ ]
[ तत्त्वबोधिनीविकृतिविभूषितम् न चैवं भ्रमिजनकत्वलक्षणदृढत्वेन दण्डे घटहेतुत्वं न स्यात्, इष्टत्वात् , दण्डत्वेनैव तत्त्वात् , कचिद् घटानुत्पादस्य भ्रमिरूपद्वाराऽभावेन सम्भवात् , क्षुद्रचक्रभ्रमिसमर्थान्महाचक्रसहिताद् दण्डात् घटानुत्पत्तौ तथैव वाच्यत्वाद् " इत्याहुः ॥२॥
'अन्यत्र क्लप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभृतं तृतीयम् , यथा-गन्धं प्रत्यन्यत्र क्लप्तपूर्ववर्तिताकगन्धप्रागभावेन स्यादित्याशयः। यदि च फलाननुगुणमिति विशेषणं न दीयते तदा निरुक्तान्यथासिद्धिसद्भावाद् भ्रमिजनकत्वेन दण्डस्य घटकारणत्वं न स्यादित्याशङ्कामिष्टापत्या परिहरति- न चेति । तत्त्वात् घटहेतु. त्वात् । क्वचित् भ्रमिजननाऽसमर्थदण्डसमवधानस्थले। भ्रमिजनकत्वलक्षणदृढत्वशालिदण्डत्वेन घटं प्रति दण्डस्य कारणतोभ्युपगमपक्षेऽपि तस्य भ्रमिद्वारा कारणत्वमवश्यं वाच्यमन्यथा क्षुद्रभ्रमि. जननसमर्थदण्डोऽपि भ्रमिजनकदण्डो भवत्येवेति ततोऽपि महाचक्रसहिताद् घटोत्पत्तिः स्यात्, भ्रमिद्वारा कारणत्वे तु क्षुद्रचक्रभ्रमिमात्रसमर्थन दण्डेन महाचक्रभ्रमणानुत्पादात् तद्रूपव्यापाराभावेन न घटोत्पत्तिरिति भ्रमिजनकत्वस्य कारणतावच्छेदकत्वे मानाभावादित्याह- क्षुद्रेति । तथैव भ्रमिद्वारा कारणत्वस्यैव दीधितिकृन्मते यथा भ्रमिजनकत्वलक्षणदृढत्वेन न दण्डस्य कारणत्वं किन्तु दण्डत्वेनैव, क्वचिद् घटानुत्पादस्य भ्रमिरूपव्यापाराभावादेव सम्भवः, तथा श्रवणस्याप्यात्मसाक्षात्कारं प्रति निदिध्यासं प्रति च न मननव्योपारकश्रवणत्वेन कारणत्वं किन्तु श्रवणत्वेनैव, क्वचित् तत आत्मसाक्षात्कारानुत्पादस्य मननलक्षणव्यापाराभावादेव सम्भव इत्याशयः ।
तृतीयान्यथासिद्धिं निरूपयति- अन्यत्रेति। उदाहरति- यथेति । भन्यत्र अपाक जगन्धस्थले । तत्सहभूतेति-गन्धप्रागभावसहभूतेत्यर्थः।