________________
अनेकान्तव्यवस्थाप्रकरणम् ]
क्लृप्त०' इत्यादिनैव । न चैवं मननव्यापारकश्रवणत्व-भ्रमिजनकत्वादिना जनकत्वानुपपत्तिः १ 'अन्यं प्रति पूर्ववर्तित्व एव०' इत्यत्र फलाननुगुणमन्यं प्रतीति वाच्यत्वात् ।
दीधितिकृतस्तु - " फलाननुगुणमन्यं प्रतीति न वाच्यम्, अत एव परामर्शजनकत्वेन तद्व्याप्तिज्ञानानां न कारणत्वमे तदन्यथासिद्धेः ।
[ १५७
"
ननु मननव्यापारकश्रवणेत्वेन रूपेणात्मश्रवणस्यात्मसाक्षात्कारं प्रति कारणत्वम्, भ्रमिजनकत्वेन रूपेण दण्डस्य घटं प्रति कारणत्वं च न स्यात्, मननव्यापारकश्रवणत्वावच्छिन्नस्यात्मश्रवणस्यात्मसाक्षात्कारं प्रति पूर्ववर्तित्वग्रहो मननं प्रति पूर्ववर्तित्वग्रहनियत इति निरुक्तद्वितीयान्यथासिद्धिलक्षणाक्रान्तत्वात् एवं भ्रमिजनकत्वावच्छिन्नस्य दण्डस्य घटं प्रति पूर्ववर्तित्वग्रहो भ्रमिं प्रति पूर्ववर्तित्वग्रह नियत इति तस्यापि निरुक्तान्यथासिद्धिमत्त्वादित्याशङ्क्य प्रतिक्षिपति - न चैवमिति । 'अन्यम्' इत्यस्य फलाननुगुणमिति विशेषणं दीयते, मननमात्मसाक्षात्काररूपफलानुगुणम्, भ्रमिश्च घटात्मकफलानुगुणेति फलाननुगुणान्यशब्देन मननभ्रम्यादेर्धारणाऽसम्भवादुक्तलक्षणाभावान्न निरुक्तान्यथासिद्धत्वं श्रवणदण्डादीनामिति मननव्यापारकत्वेन श्रवणस्य, भ्रमिजनकत्वेन दण्डस्य च कारणत्वं निर्वहत्येवेति प्रतिक्षेपहेतुमाह - भन्यं प्रतीति । ' दीधितिकृतस्तु' इत्यस्य 'आहुः' इत्यनेन सम्बन्धः । फलाननुगुणत्वस्यान्यविशेषणतयाऽविवक्षितत्वादिव । ' अन्यं प्रति०' इत्यादिद्वितीयान्यथासिद्धेः, परामर्शजन त्वावच्छिम्नस्य तत्तद्व्याप्तिज्ञानस्यानुमितिं प्रति पूर्ववर्तित्वग्रहः परामर्श प्रति पूर्ववर्तित्वग्रहनियत इति परामर्शजनकत्वावच्छिन्नं तत्तद्व्याप्तिज्ञानमन्यथासिद्धमित्येवं लक्षणसद्भावात्, 'अन्यम्' इत्यस्य फलाननुगुणमिति विशेषणे तु परामर्शस्यानुमितिरूपफलानुगुणत्वेन 'फलाननुगुणमन्यम्' इत्यनेन तद्धारणाऽसम्भवान्न निरुक्तान्यथासिद्धिः
अत एव एतदन्यथासिद्धेः