________________
१५६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
वच्छिन्नस्य पूर्ववर्तित्वग्रहस्तं प्रति तद्धर्मावच्छिन्नमन्यथासिद्धमित्यर्थात्, यागादेः सुखहेतुतया विहितत्वेनापूर्वं प्रत्यन्यथासिद्धत्वेऽपि यागत्वादिना हेतुत्वं निष्प्रत्यूहम् आकाशस्यापि ज्ञान - घटादौ शब्दजनकत्वेनैवै तदन्यथासिद्धत्वम्, शब्दाश्रयत्वेन तु ' अन्यत्र नुपपादकं पूर्ववर्तित्वं गृह्यत इत्येवं सङ्घटने सत्युक्तलक्षणसमन्वयः स्याद्, न चवम्, अदृष्टं प्रति पूर्ववतित्वस्य यागगतस्य स्वगं प्रति पूर्ववर्तित्वस्योपपादकत्वेन तदनुपपादकत्वस्याभावात् । उक्त दोषोद्धाराय प्रकारान्तरमाह - वस्तुत इति । यागादेः सुखहेतुतया विहितत्वेन रूपेण यद्यपूर्व प्रति कारणत्वमुपेयते तदा सुखहेतुतया विहितत्वावाच्छिन्नस्य यागादेरपूर्व प्रति पूर्ववर्तित्वग्रहः सुखविशेषलक्षणस्वर्गं प्रति पूर्ववतित्वग्रहनियत इत्यपूर्व प्रति सुखहेतुतया विहितत्वेन रूपेण यागो निरुक्तान्यथासिद्धिवानेव, अपूर्व प्रति यागत्वादिना यागादेः कारणत्वाभ्युपगमे तु यागत्वाद्यवच्छिन्नस्यापूर्व प्रति पूर्ववर्तित्वग्रहो न स्वर्गं प्रति पूर्ववर्तित्वग्रहनियत इति यागत्वाद्यवच्छिन्नस्य यागादेनक्तान्यथासिद्धत्वमिति यागत्वादिना यागादेरपूर्वं प्रति कारणत्वं स्यादेवेत्याह- याग देरिति । आकाशस्यापि शब्दजनकत्वावच्छिन्नस्य ज्ञान- घटादिकं प्रति पूर्ववर्तित्वग्रहः शब्दं प्रति पूर्ववर्तित्वग्रह नियत इति शब्दजनकत्वेन रूपेणाकाशस्य 'ज्ञान घटादिकं प्रति निरुक्तान्यथासिद्धत्वम्, यदि तु शब्दाश्रयत्वेन रूपेणाकाशस्य ज्ञान घटादिक प्रति कारणत्वमुपेयते तदा शब्दाश्रयत्वावच्छिन्नस्याकाशस्य ज्ञान - घटादिकं प्रति पूर्ववर्तित्वग्रहो न शब्द प्रति पूर्ववर्तित्वग्रहनियत इति न शब्दाश्रयत्वेनाकाशस्य ज्ञान- घटादिक प्रति निरुक्तान्यथासिद्धत्वम्, किन्तु ' अन्यत्र लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतमन्यथासिद्धम् इति तृतीया•न्यथासिद्धिलक्षणाक्रान्तत्वात् तृतीयान्यथासिद्धिरेवेत्याह- आकाशस्यापीति । एतत् द्वितीयम् ।
,
"