________________
१६८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् विशेष्यभागसाफल्याय नियतपूर्ववर्तितावच्छेदकेन येन कारणत्वाव्यवहारस्तद्रूपेणैवान्यथासिद्धर्वाच्यत्वाच । यद्वा दैशिकव्यापकतावच्छेदकत्वमपि नियतपूर्ववर्तितावच्छेदकविशेषणम् , इत्थं च दैशिक
देरभावादिति निषेधहेतुमुपदर्शयति- तळूमादिक प्रतीति । तद्विरुद्धतितद्धमादिविरुद्धेत्यर्थः। तत्कारणेति-तमादिकारणेत्यर्थः। यथोक्तान्यथासिद्धयभावादिति- 'अन्यत्र क्लप्तनियतपूर्ववतिन एव कार्यसम्भवे तत्सहभूतम् ' इतिलक्षणलक्षितान्यथासियभावादित्यर्थः । यद् यद् न कारणं तस्य सर्वस्यान्यथासिद्धत्वाभ्युपगमेऽनन्यथासिद्धत्वमात्रस्यैव कारणत्वलक्षणत्वसम्भवान्नियतपूर्ववर्तित्वरूपविशेष्यभागः कारणत्वलक्षणप्रविष्टो व्यर्थः स्याद् , अतस्तस्य व्यर्थत्वापत्तिपरिहाराय नियतपूर्ववर्तितावच्छेदकेन येन रूपेण न कारणत्वव्यवहारस्तेनैव रूपेणान्यथासिद्धत्वमित्यस्य वाच्यत्वेन तद्रासभत्वादे—मत्वाद्यवच्छिन्नं प्रति नियतपूर्ववर्तितावच्छेदकत्वाभावात् तद्रूपेणाऽनन्यथासिद्धित्वस्य भावेन तद्रूपेण रासभादेः कोरणत्ववारणाय 'नियमतोऽव्यवहितपूर्वकालवृत्तितावच्छेदक' इति विशेषणं सफलमित्याहविशेष्यभागसाफल्यायेति-नियतपूर्ववर्तितांशसाफल्यायेत्यर्थः। धूमत्वाद्यवच्छिन्नाव्यवहितपूर्वकाले यत्र कुत्रचिद् देशे नियमतो रासभत्वाद्यवच्छिन्नस्य सत्त्वेऽपि यत्र यत्र देशे धूमत्वाद्यवच्छिन्नमुत्पद्यते तत्र सर्वत्र न रासभत्वाद्यवच्छिन्नस्य सत्त्वमिति नियतपूर्ववर्तितावच्छेदके दैशिकव्यापकतावच्छेदकत्वविशेषणदाने रासभत्वादेस्तादृशरूपतया धारणाऽसम्भवान्न तेन रासभादेः कारणत्वप्रसङ्ग इत्याह- यद्वति । यदि दैशिकव्यापकतावच्छेदकत्वमपि नियतर्ववर्तितावच्छेदकधर्मविशेषणतया कारणतालक्षणे निवेश्यते तदा तत्कार्याधिकरणदेशवृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वं कारणत्वमित्येव कारणत्वलक्षणमस्तु, कार्याव्यवहितप्राक्क्षणावच्छेदेनेत्यादिकालिकव्यापकत्वनिवेशस्तत्र त्यज्यतामित्यत आह-इत्थं चेति- दैशिकव्यापकता