________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १५३ व्यतिरेकरहिततया तेन प्राक्तनान्यथासिद्धदुर्वचत्वाच्च । ननु शब्दो द्रव्याश्रितोगुणत्वादित्याद्यनुमानाच्छब्दाश्रयत्वादिनोपस्थिते आकाशे विनापि शब्दपूर्ववृत्तित्वग्रहं ज्ञान-घटादिपूर्ववर्तित्वग्रहसम्भव इति चेत ? न-शब्दो द्रव्यहेतुको जन्यगुणत्वादित्याद्यनुमानादेव कार्यकारणभावलक्षणानुकूलतर्कप्रयुक्तात् तत्सिद्धेः । न चैवं संयोगएव, तस्य न घटं प्रति पृथगन्वयादिमत्त्वमिति 'पृथगन्वयादिमता 'येन इत्यनेन 'शब्देन' इत्यस्य ग्रहणाऽसम्भवादित्याह- शब्देस्येति । तेन शब्दाश्रयत्वेन । ननु आकाशे शब्दाश्रयत्वग्रहणं शब्द प्रति पूर्ववतित्वग्रहमन्तरापि 'शब्दो द्रव्याश्रितो गुणत्वाद्' इत्यनुमानेन द्रव्याश्रितत्वे सिद्धे पृथिव्यायाधितत्ववाधात् प्रथिव्याद्यष्टद्रव्यातिरिक्तद्रव्यसिद्धौ तद् द्रव्यमाकाशनामकमेवेत्याकाशाश्रितत्वे सिद्ध शब्दस्याकाशाश्रितत्वमाकाशस्य शब्दाश्रयत्वमन्तराऽनुपपन्नमित्यन्यथानुप. पत्त्यैवेति शब्दाश्रयत्वेनाकाशस्य ज्ञान-घटादिकं प्रति जनकत्वाभ्यु. पगमेनोक्तान्यथासिद्धिसम्भव इत्याशङ्कते- नन्विति । समाधत्ते-नेति । 'शब्दो द्रव्याधितो गुणत्वाद' इत्यनुमाने गुणत्वमस्तु द्रव्याश्रितत्वं मास्त्विति व्यभिचारशङ्कानिवर्तकोऽनुकूलतर्को नास्तीति न तेनाकाशसिद्धिसम्भवः, किन्तु जन्यगुणत्वावच्छिन्नं प्रति द्रव्यत्वेन कारणत्वमिति कार्यकारणभावलक्षणानुकूलतर्कसहकृतात् शब्दो द्रव्यहेतुको जन्यगुणत्वादित्यनुमानादेवाकाशस्य सिद्धिः , समवायेन शब्दं प्रति तादात्म्येन कारणत्वमेवाकाशस्य शब्द प्रति कारणत्वम् , ततश्चाकाशस्य शब्दसमवायिकारणत्वतः शब्दाश्रयत्वमपि सिध्यत्येवेति शब्दाश्रयत्वज्ञाने शब्दं प्रति पूर्ववर्तित्वज्ञानस्य नियमेनापेक्षणाद भवति शब्दाश्रयत्वेनाकाशस्य ज्ञान-घटादिकं प्रति कारणत्वे निरुक्तान्यथासिद्धिरित्याह- शब्दो द्रव्यहेतुक इति। तत्सिद्धः शब्दा. श्रयतयाऽऽकाशसिद्धेः। ननूक्तदिशा यथा ज्ञान-घटादिकं प्रति शब्दाश्रयत्वेनाकाशस्य जनकत्वाभ्युपगमेऽन्यथासिद्धिस्तथा संयोग