________________
१५२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् गृह्यते तद् द्वितीयम् , यथा-आकाशस्य शब्दं प्रति पूर्ववर्तित्वे ज्ञात एव ज्ञान-घटादिकं प्रति तद्ग्रहादाकाशो ज्ञान-घटादौ । न च शब्दाश्रयत्वेनाऽन्यथासिद्धत्वमायेनैवेति किमनेनेति वाच्यम् , अष्टद्रव्यान्यत्वादिना तथात्वायैतदुक्तेः, शब्दस्य घटादिकं प्रति पृथगन्वय
द्वितीयामन्यथासिद्धिं दर्शयति- अन्य प्रतीति-निरुक्तान्यथासिद्धि. राकाशस्य ज्ञान-घटादिकं प्रति भवति, शब्दातिरिक्तं कार्यमा प्रत्यकाशस्यान्यथासिद्धत्वमित्यावेदनाय ज्ञानपदोपादानम्, तत्स. मन्वयं भावयति- यथेत्यादिना । तद्ग्रहात् पूर्ववर्तित्वग्रहात् । शब्दाश्रयत्वेन सहैवाकाशस्य ज्ञान-घटादिकं प्रति पूर्ववर्तित्वं गृह्यत इति शान-घटादिकं प्रति आकाशस्यान्यथासिद्धिरिति प्रथमान्यथासिद्धयैव गतार्थत्वाद् द्वितीयान्यथासिद्धिपरिकल्पना व्यर्थत्याशङ्कय प्रति. क्षिपति- न चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः। शब्दाश्रयत्वेनाकाशस्य प्रथमान्यथासिद्धत्वेऽपि अष्टद्रव्यान्यत्वादिना न प्रथमान्यथासिद्धिरिति तपेणाऽन्यसिद्धत्वाय द्वितीयान्यथासिद्धेरावश्यकतेति निषेधहेतुमुपदर्शयति- अष्टद्रव्यान्यत्वादिनेति- पृथिवी-जल-तेजो वायुकाल-दिगात्म-मनोभिन्नद्रव्यत्वादिनेत्यर्थः। तथात्वाय अन्यथासिद्धत्वाय । तदुक्तेः 'अन्यं प्रति०' इत्यादिद्वितीयान्यथासिद्धयुक्त, शब्दं प्रति पूर्ववर्तित्वज्ञाने सत्येव पृथिव्यादीनां शब्दं प्रति पूर्ववर्तित्वाभावात् तद्रूपवैधर्म्यज्ञानतः पृथिव्याद्यष्टद्रव्यान्यत्वग्रहे सति पृथिव्याद्यष्टद्रव्यान्यत्वेनाकाशस्य घटं प्रति पूर्ववर्तित्वं गृह्यत इति भवत्यष्टद्रव्यान्यत्वेनाकाशस्य घटं प्रत्यन्यथासिद्धत्वमित्यभिसन्धिः। शब्दाश्रयत्वमप्याकाशस्य पृथिव्याद्यष्टद्रव्येभ्यो वैधयं भवति, तज्ज्ञानेनाप्यष्टद्रव्यान्यत्वज्ञानं सुकरमिति नाष्टद्रव्यान्यत्वेनाकाशस्य घटादिकं प्रत्युक्तान्यथासिद्धिसम्भव इति यदि कश्चिद् याद् तदापि शब्दाश्रयत्वेनैव घटादिकं प्रत्याकाशस्य द्वितीयान्यथासिद्धिर्न शब्दाश्रयत्वेनाकाशस्य प्रथमान्यथासिद्धिसम्भवः, शब्दाश्रयत्वं शब्द