________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १५१ नियमोक्तौ च द्वयणुकादिकं प्रति परमाण्यादिना तद्रूपादेरन्यथासिद्धयनापत्तिः, नियमाविवक्षायां तु वैपरीत्यमपि स्यादिति वाच्यम् , 'पूर्ववर्तित्वम्' इत्यस्यान्वय-व्यतिरेकित्वमित्यर्थात् , न च तद् अतिप्रसक्तेन रूपत्वादिना सुग्रहमिति ।। १ ।। ___ अन्य प्रति पूर्ववर्तित्वे ज्ञात एव यं प्रति यस्य पूर्वर्तित्वं ग्रहमन्तरेण प्रत्यक्षेण दण्डरूपे रूपत्वेन घटनियतपूर्ववर्तित्वग्रहो न भवत्येवेति रूपत्वादिनाऽपि दण्डरूपादेरन्यथासिद्धिः स्यादेवेति यदि तदा द्वयणुकादिकं प्रति परमाण्वादिना परमाणुरूपादेरन्यथासिद्धत्वं न स्यात्, परमाणुरूपादेरतीन्द्रियत्वेन प्रत्यक्षेण त्यणुकादिपूर्ववर्तित्वस्य ग्रहाऽसम्भवादित्याह-प्रत्यक्षेणेति । तद्रूगदेः परमाणुरूपादेः। • ननु 'येन सहैव' इत्यत्र नियमार्थकैवकारो नोपादीयते, तथा च रूपत्वादिना दण्डरूपादौ घटादिपूर्ववर्तिताग्रहो दण्डज्ञानं विनाऽपि भवतु परं दण्डरूपत्वादिना दण्डरूपादौ तद्ग्रहस्तु दण्डादिना सह भवतीत्येतावता दण्डादिना दण्डरूपादेरन्यथासिद्धिः स्यादित्यत आह- नियपाऽविवक्षायां विति-कदाचिद् दण्डादावपि घटादिनियतपूर्ववर्तिताग्रहो दण्डरूपादिना सह भवतीति दण्डरूपादिना दण्डा. देरपि निरुक्तान्यथासिद्धिः स्यादित्यर्थः। निषेधे हेतुमाह-पूर्ववर्तित्वमित्यस्येति-तथा च येन सहैव यस्य यं प्रत्यन्वयव्यतिरेकित्वं गृह्यते तदन्यथासिद्धमिति फलितम् । इत्थमपि कुतोऽनन्यथासिद्धिपरिहार इत्यपेक्षायामाह-न चेति- अस्य 'सुग्रहम्' इत्यनेनान्वयः । तत् अन्वयव्यतिरेकित्वम् । रूपत्वं हि दण्डरूपेऽपि रूपान्तरेऽपि, घटं प्रत्यन्वय-व्यतिरेकित्वं तु दण्डरूप एव न रूपान्तर इति रूपत्वस्यातिप्रसक्ततया न घटं प्रत्यन्वय-व्यतिरेकित्वस्यावच्छेदकत्वमिति न रूपत्वेन दण्डरूपे घटं प्रत्यन्वय-व्यतिरेकित्वस्य ग्रहः सम्भवति, किन्तु दण्डरूपत्वेन, तादृशग्रहश्च दण्डादिना सहैवेति भवत्येव दण्डादिना दण्डरूपादेनिरुक्तान्यथासिद्धिः ॥१॥