________________
१५० ]
[ तत्वबोधनीविवृतिविभूषितम् तत्संयोगस्य तु समवायत इति मिथस्तत्त्वमेवेत्यदोषात् । न च, एवं विनापि दण्डादिज्ञानं रूपत्वादिना दण्डरूपादौ घटादिपूर्ववर्तित्वग्रहसम्भवाद् रूपत्वादिना तद्धेतुत्वापत्तिः, प्रत्यक्षेण आहे इत्यनेन तत्संयोगादेः' इत्यस्य वारणासम्भवादित्याह-चक्षुःकपालादे. रिति-यत्काले प्रत्यक्षं तत्काले चक्षुरिति कृत्वा चक्षुषोऽन्वयः कालिकसम्बन्धघटितः, समवायसम्बन्धेन घटादिकं प्रति तादात्म्यसम्बन्धेन कपालादिकं कारणमिति कपालादेरन्वयस्तादात्म्यघटितः, एवं विषयतासम्बन्धेन प्रत्यक्ष प्रति तदात्म्यसम्बन्धेन कपालादेविष. यस्य कारणत्वमित्यतोऽपि कपालादेरन्वयस्तादात्म्यघटितः, चक्षःसंयोगस्तु विषये समवायेन वर्तत इति तदन्वयः समवायघटितः, एवं समवायेन घटादिकं प्रति समवायेन कपालादिसंयोगः कारणमिति तदन्वयः समवायघटित इति द्वयोरपि निरुक्तपृथगन्वयादिमस्वेन 'पृथगन्वयादिमत्त्वरहितस्य यस्य' इत्यनेन 'चक्षुःसंयोगादेः कपालसंयोगादेः' इत्यस्य धारणाऽसम्भवेन न चक्षुः-कपालादिना तत्संयोगादेनिरुक्तान्यथासिद्धिरित्यर्थः । ननु दण्डरूपत्वादिना दण्डरूपादेर्शानस्य दण्डज्ञानसापेक्षत्वेन दण्डरूपत्वादिना दण्डरूपादौ घटादिकार्यनियतपूर्ववर्तित्वग्रहस्य दण्डज्ञानं विनाऽसम्भवात् तदानीं निरुक्तान्यथासिद्धिसम्भवेऽपि रूपत्वादिना दण्डरूपादौ नियतपूर्ववर्तित्वग्रहो दण्डादिज्ञान विनापीति रूपत्वादिना दण्डरूपादेरन्वयो न दण्डाद्यन्वयघटित इति रूपत्वेन रूपेण दण्डरूपादेः पृथगन्ययादिमत्त्वमेवेति नोक्तान्यथासिद्धिरिति रूपत्वेन दण्डरूपादेः घटादिकं प्रति कारणत्वं स्यादित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः। तद्धेतृत्वापतिः दण्ड रूपादेर्घटादिकारणत्व. प्रसङ्गः । पृथगन्वय-व्यतिरेकवता येन सहैव यं प्रति यस्य पूर्ववर्तित्वं प्रत्यक्षेण गृह्यते तं प्रति तदन्यथासिद्धम् , तथा च प्रत्यक्षेण दण्डरूपे घटनियतपूर्ववर्तित्वग्रहो दण्डग्रहनियत एवेति दण्ड.