________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १४९
तद्रूपादेस्तथात्वम् , दण्डाद्यन्वयस्य तद्रूपाद्यन्वयघटकतत्समवायाऽघटितत्वात् , न तु दण्डरूपादेदण्डादितः, तद्रूपाद्यन्वयस्य तदन्वयघटितत्वात् ; चक्षुः-कपालादेरन्वयः कालिकतादात्म्यादितः, इति दण्ड-दण्डत्वयोः परस्परं तदन्वयादिघटितान्वयादिमत्त्वमेव, न तदन्वयाद्यघटितान्वयादिमत्त्वमतो न दण्डत्वादिना दण्डादेरन्यथासिद्धिरित्यर्थः । दण्डादिना दण्डरूपादेस्त्वन्यथासिद्धिस्तु सम्भवति, यतो दण्डादेर्दण्डरूपाद्यन्वयाद्यघटितान्वयादिमत्त्वलक्षणं पृथगन्वयादिमत्त्व समस्ति, स्वाश्रयसंयोगसम्बन्धेन दण्डरूपादिसत्त्वलक्षणदण्डरूपाद्यन्वये प्रविष्टस्य दण्डरूपसमवायस्य संयोगसम्बन्धेन दण्डसत्त्वलक्षणदण्डान्वयेऽप्रविष्टत्वादिति 'येन पृथगन्वयादिमता' इत्यनेन 'दण्डादिना' इत्यस्य ग्रहीतुं शक्यत्वात् , संयोगसम्बन्धेन दण्डसत्त्वलक्षणदण्डान्वये दण्डत्व-समवाय-दण्ड-संयोगाः प्रविष्टाः, ते सर्वेऽपि स्वाश्रयसंयोगेन दण्दरूपसत्त्वलक्षणदण्डरूपान्वये प्रविष्टा एव, रूपविशेषणीभूते दण्डे दण्डत्व-तत्समवायदण्डानां प्रविष्टत्वात् , स्वाश्रयसंयोगलक्षणसम्बन्धे च दण्डसंयोगस्य प्रविष्टत्वादिति दण्डाद्यन्वयाद्यघटितान्वयादिमत्त्वलक्षणपृथगन्वयादिमत्त्वं न दण्डरूपादेरिति 'प्रथगन्वयादिरहितस्य यस्य इत्यनेन दण्डरूपादेग्रहीतुं शक्यत्वादित्याह-दण्डादेस्त्विति । पादेः दण्डरूपादितः। तथात्वं दण्डरूपाद्यन्वयाद्यघटितान्वयादिमत्त्वलक्षण पृथगन्वयादिमत्त्वम् । तदुपपादनायाह-दण्डाद्यन्वयस्येति । तद्रूपेतिदण्डरूपेत्यर्थः । तत्समवायेति-दण्डरूपादिसमवायेत्यर्थः । न विति. दण्डरूपादेर्दण्डादितो निरुक्तस्वरूपं पृथगन्वयादिमत्त्वं नास्तीत्यर्थः । तद्रूपाद्यन्वयस्य दण्डरूपाद्यन्वयस्य । तदन्वयघटितत्वात् दण्डाद्यन्वयघटितत्वात् । एवं च 'यस्य पृथगन्वयादिरहितस्य' इत्यनेन 'दण्डरूपादेः' इत्यस्य ग्रहणं सम्भवतीत्याशयः। चक्षुः कपालादिना तत्लयोगादेनिरुक्तान्यथासिद्धिर्न सम्भवति, तत्र द्वयोरपि परस्परापेक्षया निरुक्तपृथगन्वयादिमत्त्वेन 'यस्य पृथगन्वयादिरहितस्य