________________
१४८ ]
[ तत्त्वबोधनीविवृतिविभूषितम् दित इव दण्डरूपादेरपि पृथगन्वयाद्यभावात् कथं तेन तद्रूपान्यथासिद्धिरिति चेत् ? न - ‘पृथग्' इत्यादेस्तदन्वय-व्यतिरेकाऽनियतान्वय-व्यतिरेकशालित्वं नार्थः, किन्तु तदन्वयायघटितान्वयादिमत्त्वम् , इत्थं च दण्ड-दण्डत्वयोने मिथस्तथात्वम् , दण्डत्वतत्समवाय-दण्डसंयोगादीनामुभयशरीरघटकत्वात् , दण्डादेस्तु
णस्य घटादिस्वरूपस्य वा कार्यस्याभावात् । 'पृथगन्वयादि०' इत्यादि पदात् पृथगव्यतिरेकपरिग्रहः। ननु यथा स्वाश्रयसंयोगसम्बन्धेन दण्डत्वादिसत्त्वे संयोगसम्बन्धेन नियमतो दण्डादिसत्त्वमिति दण्डत्वा. धन्वय व्यतिरेकतो न पृथगन्वय-व्यांतरेको दण्डादेः, तथा स्वाश्रयसंयोगसम्बन्धेन दण्डरूपादिसत्त्वे नियमतः संयोगेन दण्डादिसत्त्वमिति दण्डरूपाद्यन्वय-व्यतिरेकतोऽपि न पृथगन्वयव्यतिरेको दण्डादेरिति 'येन पृथगन्वय-व्यतिरेकवता' इत्यनेन 'दण्डादिना' इत्यस्य ग्रहीतुमशक्यत्वेन दण्डादिना दण्डरूपादेरपि नोक्तान्यथासिद्धत्वसम्भव इत्याशङ्कते-नन्वेवमपीति । 'दण्डरूपादराप' इत्यत्र दण्डरूपादेरिति पञ्चम्यन्तम्, तथा च दण्डरूपादितोऽपि दण्डादेः पृथगन्वय-व्यतिरेकाऽभावादित्यर्थः। तेन दण्डादिना। तद्पान्यथासाद्धः दण्डरूपादेरन्यथासिद्धिः। समाधत्ते- नेति ॥ तदन्वयेति- तदन्वय-व्यतिरेकाऽघटितान्वय-व्यतिरेकशालत्वं पृथगन्वय-व्यतिरेकवत्त्वमित्यर्थः । इत्थं च पृथगन्वय-व्यतिरेकवत्त्वस्य निरुक्तस्वरूपत्वे च । तथात्वं तदन्वयाद्यटितान्वयादिमत्त्वम् । उभयशरीरघटकत्वात् दण्डत्वाद्यन्वय-व्यतिरेक-दण्डाद्यन्वयातरेकोभयशरीरघटकत्वात्। यत स्वाश्रयसंयोगसम्बन्धेन दण्डत्वसत्त्वं दण्डत्वस्यान्वयः, तत्र दण्डत्वम्, तदाश्रयश्च समवायेनेति समवायः, तदाश्रयो दण्ड इति दण्डः संयागश्चेते घटकाः, संयोगेन दण्डसत्त्वं दण्डस्यान्वयः, तत्रापि दण्डः समवायेन दण्डत्वाश्रय इति दण्डत्व-तत्समवाय-दण्ड-तत्संयोगा घटका