________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १४७ सति दण्डसंयोगादौ दण्डादिव्यतिरेकाद् घटादिव्यतिरेकासिद्धेदण्डादेः पृथगन्वयाद्यभावात् 'येन पृथगन्वयादिमता' इत्यत एव दण्ड संयोगादेरनन्यथासिद्धौ 'तद्रहितस्य' इति व्यर्थमिति वाच्यम् , चक्षुः-कपालादिना तत्संयोगान्यथासिद्धिवारणार्थ तदुपादानात् , तत्संयोगे सत्यपि चक्षुः-कपालादिनाशकाले तद्वयतिरेके कार्यव्यतिरेकाचक्षुः-कपालादेः पृथगन्वयादिमत्त्वात् । नन्वेवमपि दण्डादेर्दण्डत्वाक्षिपति-न चेति- अस्य ‘वाच्यम्' इत्यनेनान्वयः। एवं दण्डत्वादिना दण्डादेरन्यथासिद्धत्ववारणाय 'येन' इत्यस्य 'पृथगन्वय-व्यतिरेकवता' इति विशेषणदाने । दण्डसंयोगादौ सतीत्यन्वयः। चक्षुरिन्द्रियस्य प्रत्यक्षं प्रति कार्यसहभावेन कारणत्वम् , एवं कपालादेविषयस्य कार्यकालवृत्तितया स्वविषयकप्रत्यक्षं प्रति कारणत्वम् , समवाधिकारणस्य चा कपालादेर्घटादिकार्य प्रति कार्यकालवृत्तितया कारणत्वम् , एवं चलर्विषयसंयोगानन्तरक्षणे चक्षुषो नाशे विषयनाशे वा, कपालादिसंयोगानन्तरक्षणे कपालादिनाशे वा तदानीं प्रत्यक्ष घटादिकार्य च न जायत इति चक्षुस्संयोगसत्त्वेऽपि चक्षुषोऽभावात् प्रत्यसाभावः, एवं कपालादिलक्षणविषयाऽभावात् तत्प्रत्यक्षाऽभावः, कपालादिद्वयसंयोगसत्त्वेऽपि कपालाद्यभावाद् घटादिकार्याऽभाव इति पृथगन्वय-व्यतिरेकवत्त्वमवश्यं चक्षुः-कपालादेरिति पृथगन्वयव्यतिरेकवता चक्षुः-कपालादिना चझुर्विषयसंयोगस्य कपालद्वयसंयोगादेश्चान्यथासिद्धत्वं प्रसज्यत इति तद्वारणाय 'यस्य' इत्यस्य 'पृथगन्वय-व्यतिरेकरहितस्य' इति विशेषणं देयमिति प्रतिषेधहेतुमुपदर्शयति- चक्षुःकपालादिनेति । तत्संयोगेति-चक्षुःकपालादिसंयोगेत्यर्थः । तदुपादानात् 'यस्य' इत्यस्य विशेषणतया 'पृथगन्वय-व्यतिरेकरहितस्य' इत्यस्योपादानात् । तत्संयोगे सत्यपि चक्षुः-कपालादिसंयोगे सत्यपि । तद्व्यतिरेके चक्षुः-कपालाद्यभावे । कार्यव्य तेरेकात् प्रत्यक्षलक्ष