________________
१४६ ]
[ तत्त्वबोधनीविवृतिविभूषितम् एवं दण्डादेरपि पृथगन्वयादिमत्त्वादेव न दण्डत्वादिनाऽन्यथासिद्धिरिति, येन 'पृथगन्वयादिमता' इति व्यर्थम् , स्वाश्रयसंयोगेन सति दण्डत्वादौ दण्डादिव्यतिरेकासिद्धेर्दण्डादेरतथात्वात् । न च, एवं 'पृथगन्वय-व्यतिरेकवता' इति विशेषणमित्याशङ्कां प्रतिक्षिपतिन चेति । एवं दण्डादिना दण्डसंयोगादेरन्यथासिद्धत्ववारणाय 'यस्य' इत्यस्य 'पृथगन्वय-व्यतिरेकरहितस्य' इति विशेषणोपादाने सति । 'अन्वयादि०' इत्यादिपदाद् व्यतिरेकस्य ग्रहणम् , एवमग्रेऽपि स्वाश्रयसंयोगसम्बन्धेन दण्डत्वादिसत्त्वं तदैव स्याद् यदि संयोगसम्बन्धेन दण्डादिसत्वं भवेदिति निरुक्तसम्बन्धेन दण्डत्वादिसत्त्वे तदानी दण्डाद्यभावे घटाद्यभाव इति व्यतिरेको वक्तुमशक्य इति न पृथगन्वय-व्यतिरेकशालित्वं दण्डादेरिति 'पृथगन्वय-व्यतिरेकरहितस्य यस्य' इत्यनेन 'दण्डादेः' इत्यस्य ग्रहसम्भवेन 'येन' इत्यस्य 'पृथगन्वय-व्यतिरेकवता' इति विशेषणाऽदाने येन' इत्यनेन दण्डत्वादिना' इति ग्रहीतुं शक्यमिति दण्डत्वादिना दण्डादेरन्यथासिद्धत्वं प्रसज्यत एवेति तद्वारणाय येन' इत्यस्य पृथगन्वय-व्यतिरेकवता' इति विशेषणं देयमेवेति प्रतिषेधहेतुमुपदर्शयति-स्वाश्रयसंयोगेनेति । अतथात्वात् पृथगन्वय-व्यतिरेकशालित्वाभावात्, तथा च 'पृथगन्वय-व्यतिरेकरहितस्य यस्य' इत्यनेन दण्डादेब्रहणं सम्भवतीत्याशयः। ननु दण्डत्वादिना दण्डादेरन्यथासिद्धत्ववारणाय 'येन' इत्यस्य 'पृथगन्वय-व्यतिरेकवता' इति विशेषणदाने दण्डादिना दण्डसंयोगादेरन्यथासिद्धत्वप्रसङ्गवारणाय 'यस्य' इत्यस्य 'पृथगन्वय-व्यतिरेकरहितस्य' इति विशेषणं न देयं दण्डसंयोगादिसत्त्वे दण्डादिसत्त्वस्यावश्यकतया तदानीं दण्डाद्यभावे घटाद्यभाव इति व्यतिरेकाऽसम्भवात् , तथा च 'येनान्वय-व्यतिरेकवता' इत्यनेन ‘दण्डादिना' इत्यस्य ग्रहणाऽसम्भवात् तावतैव दण्डादिना दण्डसंयोगादेरन्यथासिद्धत्वप्रसक्त्यभावादित्याशङ्कां प्रति