________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १४५
यस्य तद्रहितस्येति वाच्यम्, तेन दण्डत्वादिना दण्डादेर्नान्यथासिद्धिः, नवा दण्डसंयोगादेर्दण्डादिना, सत्यपि दण्डादौ विना तत्संयोगादिकं कार्यव्यतिरेकात् तस्य पृथगन्वयादिमत्वात् । न च,
"
"
दण्डस्य घटादिकं प्रति पूर्ववर्तित्वग्रहाद् घटादिकं प्रति दण्डत्वेन दण्डोsपि प्रथमान्यथासिद्धः स्यात् एवं चक्रत्वादिना चक्रादिकमप्युक्तान्यथासिद्धं भवेदित्यत आह-अत्रेति तथा च पृथगन्वयव्यतिरेकवता येन सहैव पृथगन्वयव्यतिरेकरहितस्य यस्य यं प्रति पूर्ववृत्तित्वं गृह्यते तदाद्यमिति पर्यवसितम् 'येन' इत्यस्य 'पृथगन्वयव्यतिरेकवता' इति विशेषणाद् घटादिकं प्रति दण्डत्वादेः पृथगन्वयव्यतिरेकाभावाद् 'येन' इत्यनेन 'दण्डत्वादिना' इति ग्रहीतुं न शक्यत इति न दण्डत्वादिना दण्डादेरन्यथासिद्धिः ।, 'यस्य' इत्यस्य 'पृथगन्वय-व्यांतरे करहितस्य' इति विशेषणाद् घटादिकं प्रति पृथगन्वयव्यतिरेकवतो दण्डसंयोगादेः पृथगन्वयव्यतिरेकराहित्याऽभावाद् 'यस्य' इत्यनेन 'दण्डसंयोगादेः' इति ग्रहीतुं न शक्यत इति दण्डादिना दण्डसंयोगादेर्नान्यथासिद्धिरित्याह- तेनेति'पृथगन्वयव्यतिरेकवता' इत्यादिविशेषणोपादानेनेत्यर्थः । दण्डसंयोगादेः पृथगन्वयव्यतिरेकवत्त्वं भावर्यात - सत्यपि दण्डादाविति । तत्संयोगादिकं दण्डसंयोगादिकम् । कार्यव्यतिरेकात् घटादिकार्याऽभावात् । तस्य दण्डसंयोगादेः । ननु 'यस्य' इत्यस्य पृथगन्वयव्यतिरेकरहितस्य' इति विशेषणोक्तों 'येन' इत्यस्य 'पृथगन्वय - व्यतिरेकवता' इति विशेषणं न देयम् दण्डत्वादिना दण्डादेरन्यथासिद्धिवारणायव तद्विशेषणं दीयते, परं तददाने 'येन' इत्यनेन 'दण्डत्वादिना' इत्यस्य ग्रहणेऽपि 'पृथगन्वयव्यतिरेकरहितस्य यस्य' इत्यनेन 'दण्डादेः' इत्यस्य ग्रहणं न सम्भवति दण्डादेः पृथगन्वय- व्यतिरेकादिमत्त्वेन पृथगन्वयव्यतिरेक राहित्याऽभावादिति दण्डत्वादिना दण्डादेरन्यथासिद्धत्वप्रसङ्गाऽभावे व्यर्थमेव 'येन' इत्यस्य
"
૧૦