________________
१४४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् साहित्यं पूर्ववर्तित्वग्रहे विशेष्यतावच्छेदकत्वम् , रूपादावेव पूर्ववर्तित्वग्रहाद् विशेष्यत्वमित्यन्ये । अत्र येन-पृथगन्वयव्यतिरेकवता, दण्डादिना रूपस्य साहित्यम् , अर्थाद् दण्डादिनिष्ठावच्छेदकतानिरूपिता या पूर्ववर्तित्वग्रहनिरूपितविशेष्यता तत्त्वम्, अतस्तस्य रूपे सत्त्वाद् दण्डादिना साहित्यं तस्योपपद्यते, अथवा 'दण्डरूपं घटपूर्ववर्ति, रूपवान् दण्डो घटपूर्ववर्ती' इत्येवं द्विविधाऽपि पूर्ववर्तित्वग्रह इति दण्डस्यापि विशेष्यतावच्छेदकत्वं रूपस्यापि विशेष्यतावच्छेदकत्वमिति साहित्यम्, यद्वा विशेष्यता अवच्छेदकता च साहित्यमिति च्छेदः, तथा च 'दण्डरूपं घटनियतपूर्ववर्ति' इत्येवं ग्रहे रूपनिष्ठविशेष्यतानिरूपितावच्छेदकता दण्डे रूपसाहित्यम् , दण्डनिष्ठावच्छेदकतानिरूपितविशेष्यता रूपे दण्डसाहित्यमिति । ननु विशेष्यतावच्छेदकत्वं न साहित्यं किन्तु विशेष्यत्वम् , यथा-'दण्डो घटपूर्ववर्ती' तथा 'रूपं घटपूर्ववर्ति' इत्येवं दण्ड-रूपयोः पूर्ववर्तित्वग्रहविशेष्यत्वं दण्डे दण्डरूपे च समस्ति, पूर्ववतित्वं नाम कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधिकरणे कारणतावच्छेदकसम्बन्धेन वृत्तित्वम् , तच्च समवायसम्बन्धेन घटात्मककार्याधि. करणे कपाले स्वाश्रयदण्डजन्यचक्रभ्रमिजन्यत्वसम्बन्धेन वर्तमाने रूपे समस्तीति मतान्तरमाह-रूपादावेवेति-एवकारेण दण्डविशेषितस्य रूपादेः पूर्ववर्तित्वग्रहव्यवच्छेदः, यदा च केवलस्यैव रूपादेः पूर्ववर्तित्वग्रहविशेष्यत्वं तदा पूर्ववर्तित्वग्रहविशेष्यतावच्छेदकत्वं न दण्डादेरिति न तल्लक्षणं साहित्यम् , दण्डस्यापि रूपाद्यविशेषितस्यैव 'दण्डो घटपूर्ववर्ती' इत्येवंग्रहविशेष्यत्वम्, ततो न रूपस्यापि निरुक्तविशेष्यतावच्छेदकत्वं किन्तु निरुक्तविशेष्यत्वमेवेति तदेवानुगतत्वात् साहित्यम् । नन्वेवं 'दण्डो घटनियतपूर्ववर्ती' इति ग्रहे दण्डनिष्ठविशेष्यतानिरूपितावच्छेदकत्वलक्षणसाहित्यस्य दण्डत्वे दण्डत्वनिष्ठावच्छेदकतानिरूपितविशेष्यत्वस्य दण्डे सत्त्वात् येन सहैव