________________
अनेकान्सव्यवस्थाप्रकरणम् ]
[ १४३ . कारणत्वमप्यतिरिच्यते, अनन्यथासिद्धत्वे सति नियतपूर्ववर्तिताया अतत्त्वात् , तथाहि-अनन्यथासिद्धत्वमन्यथासिद्धभिनत्वम् , अन्यथासिद्धं च पञ्चविधम् । तत्र येन सहैव यस्य यं प्रति पूर्ववृत्तित्वं गृह्यते तदाद्यम् , यथा-दण्डादिना सहैव दण्डरूपादेर्घटादिकं प्रति पूर्ववर्तित्वग्रहाद् दण्डरूपादिकम् , दण्डादिनात्र अनन्यथापिद्धत्वे सति नियतपूर्ववर्तितायाः कारणतारूपत्वाऽभाषमेव भावयति-तथाहीति। तत्र पञ्चस्वन्यथासिद्धेषु मध्ये। आद्यं प्रथममन्यथासिद्धम् । घटादिकं प्रति दण्डरूपादिकं प्रथमान्यथासिद्धत्वेन प्राचीननैयायिकसम्मतमिति तत्रोक्तलक्षण सङ्गमयति-यथेत्यादिना विश्वनाथपञ्चाननेन तु
"येन सह पूर्वभावः कारणमादाय वा यस्य । अन्य प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम् ॥१२॥ जनके प्रति पूर्ववर्तितामपरिक्षाय न यस्य गृह्यते । अतिरिक्तमथापि यद् भवेषियतावश्यकपूर्ववर्तिनः ॥२०॥ एते पञ्चाऽन्यथासिद्धा दण्डत्वादिकमादिमम् । घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् ॥२१॥ तृतीयं तु भवेद् व्योम कुलालजनकोऽपरः । पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ' ॥२२॥
इत्येवं पञ्चान्यथासिद्धा उपवर्णिताः [कारिकावल्याम्] तेनैव च मुक्तावल्यामेताः कारिका व्याख्याताः, तत्र च द्वितीयान्यथासिद्धत्वेन दण्डरूपादिकं दर्शितमिति । प्रकृते च येन सहैव दण्डादिना सहैव, यस्य दण्डरूपादेः। यं प्रति घटादिक प्रति, पूर्वधर्तिस्वं गृह्यते पूर्ववर्तित्वग्रहात् , दण्डरूपादिकं घटादिकं प्रति प्रथममन्यथासिद्धमित्येवमुक्तलक्षणसङ्गमनम् । दण्डादिनेति- 'दण्डरूपं घटपूर्ववर्ति' इत्येवंपूर्ववर्तित्वग्रहनिरूपितविशेष्यतावच्छेदकत्वं यद् दण्डे, तदेव