________________
१४२ ]
[ तत्त्वबोधिनीधिवृतिविभूषितम्
शान्नेदं युक्तमित्यपरे, द्रव्यजात्यन्यत्वस्थाने द्रव्यान्यसत्त्वनिवेशेऽपि न क्षतिरित्यपि बोध्यम् ॥
सादृश्यमप्यतिरिच्यते, तद्भिन्नत्वे सति तद्वृत्तिधर्मवच्त्वेन तद्बुद्धेरनुपपत्तेरुत्कर्षा -ऽपकर्षादिवत् तस्य वैलक्षण्येनैवानुभवात् ॥ नित्यान्यचाक्षुषं घटाभावादिवाक्षुषमपि न भवति घटाभावादेर्नित्यत्वेन नित्यान्यत्वाभावादिति तत्प्रत्यक्षस्य निरुक्तप्रतिबध्यतावच्छेदकधर्मानाक्रान्तत्वेन तद्विषये घटाभावादौ महदुद्भूतरूपवद्भिननिरूपितवैशिष्ट्याण्यसम्बन्धावच्छिन्नवृत्तितावतो घटाभावादेस्तादात्म्येन सत्त्वेऽपि न तदनुपपत्तिरिति न प्रतिबन्धककोटौ समवेतत्वनिवेशनं सप्रयोजनमिति नोक्तमतस्य युक्तत्वमित्यर्थः । द्रव्यान्यसच्चानुषत्वस्य प्रतिबध्यतावच्छेदकत्वेऽपि तस्य जातिचाक्षुषेऽभावचाक्षुषे वाभावान्महदुद्भूतरूपवद्भिन्नवैशिष्ट्यस्य प्रतिबन्धकतावच्छेदकत्वेऽपि न क्षतिरिति न समवायसिद्धिरित्याह- द्रव्य - जात्यन्यत्वस्थान इति ॥
सोदृश्यरूपपदार्थान्तरसत्त्वादपि द्रव्यादिषट्पदार्थविभागो वैशेषिकाणामयुक्त इत्याह- सादृश्यमप्यतिरिच्यत इति । ननु तद्भिन्नत्वे सति तद्वृत्तिधर्मवत्त्वमेव सादृश्यम्, तच्च क्लृप्तपदार्थान्तर्भूतमेवे - त्यत आह- तद्भिन्नत्वे सतीति - यन्निरूपितसादृश्यमभिमतं तत्तत्पदेन ग्राह्यम् । रबुद्धेः सादृश्यबुद्धेः । कथमनुपपत्तिरित्यपेक्षायामाह - उत्कर्षेति यथा नीलतर- नीलतमा दिप्रतीत्योत्कर्षापकर्षादिकं नीलादिगतमनुभूयमानमन्यद्, एवं तदालिङ्गितो नीलादिरप्यन्यः, तथा सदृश- सदृशतर- सदृशतमादिप्रतीत्या तद्गतोत्कर्षापकर्षादिवत् तदालिङ्गितस्य सादृश्यस्य वैलक्षण्येनाऽनुभूयमानस्यान्यत्वमेव युक्तम्, 'तद्भिन्नत्वे सति०' इत्यादिरूपस्य तु सादृश्यस्योत्कर्षापकर्षाद्यसम्भवात् तद्वत्तया वैलक्षण्यानुभवस्याप्यनुपपत्तेर्न तद्रूपं सादृश्यमित्यर्थः ।
-
कारणत्वस्यापि पदार्थान्तरस्य सद्भावादुक्तविभागोऽनुपपन्न इत्याह-कारणत्वमप्यतिरिच्यत इति । अत्चात् कारणतारूपत्वाऽभावात् ।