________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १४१ मुख्यमेव नियामकमिति गुणादिचाक्षुषेऽपि तदेव नियामकं युक्तमिति सन्निकर्षमात्रान्यथासिद्धिकारकं तदप्यतिरिच्यत इति मदेकपरिशीलितो लतादिविदितः पन्थाः॥
द्रव्य जात्यन्यचाक्षुषे महदुद्भूतरूपवद्भिन्नसमवेतत्वेन प्रतिबन्धकत्वात् समवायसिद्धिरित्यन्ये, जात्यन्यत्वस्थाने नित्यान्यत्वनिवेसम्बन्धाकल्पनलाघवादाभिमुख्यमपि पदार्थान्तरमस्तीत्यतोऽपि षट्पदार्थविभजनमसङ्गतमित्याशयेनाह- चक्षुरप्राप्यकारित्व इति। तदेव चक्षुराभिमुख्यमेव । तदपि आभिमुख्यमपि । एतदुपपादनमुक्तदिशा स्वस्यैव स्वनिर्मितग्रन्थान्तरेऽपि स्याद्वादलतादौ तत्प्रपञ्चनमिति विशेषजिज्ञासुभिरवलोकनीयं स्याद्वादलतादिकमित्युपदिशति- इति मेदकपरिशीलितो लतादिविदितः पन्था इति ।
__ समवायसाधनप्रगल्भं मतान्तरमुपदर्शयति- द्रव्येति- जात्यन्यचाक्षुषं त्रसरेणुचाक्षुषमपि, तदपि न स्यात्, तद्विषये त्रसरेणी तादात्म्येन महदुद्भूतरूपवद्भिनयणुकसमवेतस्य त्रसरेणोः प्रतिबन्धकस्य सत्त्वाद् अतो द्रव्यान्यत्वनिवेशः, द्रव्यान्यचाक्षुषं पृथिवीत्वादिचाक्षुषमपि, तद्विषये महदुद्भूतरूपवद्भिन्नघणुकसमवेतस्य पृथिवीत्वस्य तादात्म्येन सत्त्वात् तदपि न स्यादतो जात्यन्येति, अत्र प्रतिबन्धके समवेतत्वस्थाने वैशिष्ट्यनिवेशो न सम्भवति, तथा सति द्रव्यजात्यन्यचाक्षुषं घटाभावादिचाक्षुषमपि, तद्विषये घटाभावादौ महदुद्भूतरूपवद्भिन्ने त्यणुकादौ वैशिष्ट्याख्यसम्बन्धेन वर्तमानस्य घटाभावादेस्तादात्म्येन सत्त्वात् तदपि न स्यादिति समवेतत्वमेव निवेशनीयमिति समवायसिद्धिरित्यर्थः।
___एतन्मतस्यायुक्तत्वावेदकं मतान्तरमुपदर्शयति- जात्यन्यत्वस्थान इति नित्यत्वे सत्यनेकसमवेतत्वलक्षणजातित्वेन जात्यन्यत्वप्रवेशापेक्षया लाघवान्नित्यान्यत्वमेव तत्स्थाने निवेशनीयम् , एवं च द्रव्य