________________
१४० ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
चाक्षुषे चक्षुः संयुक्तोद्भूतरूपवद्विशेषणता, रूपमहन्वतष्टत्ते रूपाभावमहत्त्वाभावभिन्नस्याभावस्य चाक्षुषे चक्षुः संयुक्तमहदुद्भूतरूपवद्विशेषणता हेतुरित्यभावप्रत्यक्ष एव त्रयं वाच्यम् ; भावप्रत्यक्षे चान्यत्, तथा च तृतीये कार्यतावच्छेदकेऽभावत्वाप्रवेशे भावप्रत्यक्षेऽपि वैशिष्टयवादिनो निर्वाहः । एवं च चक्षुः संयुक्तसमवायादेरप्यस्वीकाराल्लाघवमिति । चक्षुरप्राप्यकारित्वे द्रव्यचाक्षुषेऽपि चक्षुराभि
अभावत्वस्य कार्यतावच्छेदककोटौ निवेशेऽपि घ्राणसंयुक्ताणुविशेषणत्वस्य जलत्वाभावादौ सत्त्वात् समवायवादिनोऽपि जलत्वाभावादिप्रत्यक्षं किं न स्यादिति निषेधहेतुमुपन्यस्यति - तवापीति - समवायवादिनोऽपीत्यर्थः । एतद्भिया अयोग्यवर्तिनस्तत्तदिन्द्रियायोग्यस्य तत्तदिन्द्रियजप्रत्यक्षापत्तिभिया । त्वया समवायवादिना । तथा च अभावप्रत्यक्षे कार्यकारणभावत्रयं भावप्रत्यक्षे चान्य एव कार्यकारणभाव इति भवन्मते आवश्यकत्वे च । तृतीये कार्यतावच्छेद के रूपमहत्त्ववद्वृत्तिरूपाभावमहत्त्वाभावभिन्नाभावचाक्षुषत्वे । अभावश्वाप्रवेशे एवं सति रूपमहत्त्ववद्वृत्तिरूपाभाव महत्त्वाभावभिन्नचाक्षुषे चक्षुस्संयुक्तमहदुद् भूतरूपवद्वैशिष्ट्यस्य हेतुत्वमिति वैशिष्ट्यवादिनाऽङ्गीकृते अभाव - चाक्षुषस्येव भावचाक्षुषस्यापि निरुक्तकार्यतावच्छेदकाक्रान्ततया चक्षुःसंयुक्तमहदुद्भूतरूपवद्वैशिष्ट्यत एव तदुत्पत्तेरपि सम्भवेन तदर्थ कारणत्वान्तरकल्पनं वैशिष्ट्यवादिनो नास्तीति लाघवमित्यर्थः । वैशिष्ट्यवादिनः चक्षुःसंयुक्तसमवायचक्षुःसंयुक्तसमवेतसमवायादिसन्निकर्षस्थानेऽपि वैशिष्ट्यसम्बन्धेनैव निर्वाह तदकल्पनलाघवमपीत्याह एवं चेति चक्षुस्संयुक्तवैशिष्ट्यादिमत्यपि चक्षुःसंयुक्त वैशि
समस्त्येवेत्यभिसन्धिः । जैनमते चक्षुषः प्राप्यकारित्वमेव नास्तीति चक्षुः संयोगोऽपि न द्रव्यचाक्षुषे कारणं किन्तु चक्षुराभिमुख्यमेव, तच्च द्रव्य इव द्रव्यसमवेते तत्समवेतेऽपि चेति चक्षुः संयोगादि