________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १३९
कल्पनाया एव युक्तत्वमिति वाच्यम्; कार्यतावच्छेद के चरमाभावत्वाप्रवेशे द्वितीये च द्रव्यभेदप्रवेशे प्रथम द्वितीयाभ्यामेव निर्वाहन तृतीयकार्यकारणभावकल्पनेन वैशिष्टयवादिनो लाघवात् । न चैवं तव पार्थिवाणुघ्राणमात्रेन्द्रियसन्निकर्षे पृथिवीत्वादिप्रत्यक्षतापत्तिः १ तवापि तन्मात्रसन्निकर्षाजलत्वाभावादिप्रत्यक्षतापत्तेः; एतद्भिया च त्वया रूपाभावप्रत्यक्षे चक्षुः संयुक्तमहत्त्ववद्विशेषणता, महत्त्वाभावभावचाक्षुषमपि तद्विषये महत्त्वाभावे चक्षुस्संयुक्तमहत्त्ववद्विशेपणताया अभावाद् व्यभिचारः स्यादतो 'महत्त्वाभावान्य ' इति द्रव्यवृत्त्यभावविशेषणम्, तृतीयकार्यकारणभावे कारणकोटो 'महदू' इत्यस्यानुपादाने महत्समवेतस्य पृथिवीत्वादेश्चक्षुस्संयुक्तोद्भूतरूपवत्परमाणुसमवायेनापि चाक्षुषं स्यादिति तदुपादानम्, चक्षुसंयुक्तवाय्वादिसमवायेनापि पृथिवीत्वादेश्चाक्षुषं स्यादत 'उदूभूतरूपवद्' इति । निषेधे हेतुमाह- कार्यतावच्छेदक इति- रूपाभावान्यद्रव्यवृत्त्यभावचाक्षुषत्वे महत्त्वाभावान्यद्रव्यवृत्त्यभावचाक्षुषत्वे चेत्यर्थः चरमाभावत्वाप्रवेश इति- 'द्रव्यवृत्त्यभावचाक्षुषे' इति स्थाने 'द्रव्यवृत्ति'योषे' इत्येव वाच्यमित्यर्थः । द्वितीये च महत्त्वाभावान्यद्रव्यवृत्त्यभावचाक्षुषे इत्यस्मिन् । द्रव्यभेदप्रवेशे चरमाभावत्वं न निवेश्यते द्रव्यभेदस्य च प्रवेशः क्रियते, एवं च वैशिष्ट्यवादिनो रूपाभावान्यद्रव्यवृत्तिचाक्षुषे चक्षुः संयुक्तोद्भूतरूपवद्वैशिष्ट्यस्य हेतुत्वम्, महत्वाभावान्यद्रव्य भिन्नद्रव्यवृत्तिचाक्षुषे चक्षुः संयुक्तमहत्त्ववद्वैशिष्ट्यस्य हेतुत्वमित्येवं प्रथम द्वितीयाभ्यामेव निर्वाहेन तृतीयकार्यकारणभावाऽकल्पनेन महत्समवेतचाक्षुषे चक्षुस्संयुक्तमद्ददुद्भूतरूपवद्वैशिष्ट्यं हेतुरित्येवं तृतीयकार्यकारणभावस्या कल्पनेन । ननु इन्द्रियसन्निकर्षकार्यतावच्छेदककोटावभावत्वाऽप्रवेशे द्रव्यवृत्तिघ्राणजप्रत्यक्षे घ्राणसंयुक्तवैशिष्ट्यस्यैव हेतुत्वे घ्राणसंयुक्ताणु वैशिष्ट्यस्य पृथिवीत्वादौ सत्त्वात् तत्प्रत्यक्षं स्यादित्याशङ्कय प्रतिक्षिपति- न चेति । तव वैशिष्ट्यवादिनः ।