________________
१३८ ] [ तत्त्वबोधिनीविवृतिविभूषितम् महत्वा भाव-रूपाभावयोश्चाक्षुषे कार्यकारणभावद्वयान्तरावश्यकत्वे, रूपाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुः संयुक्तोद्भूतरूपवद्विशेषणता, महत्त्वाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुः संयुक्तमहत्त्ववद्विशेषणता, महत्समवेतचाक्षुषे चक्षुः संयुक्तमहदुद्भूतरूपवत्समवायो हेतुरिति चक्षुः संयुक्तमहदुद्भूतरूपवद्वैशिष्ट्यम्, परमाणो रुद्भूतरूपवत्त्वेऽपि महत्त्वाभावेन तमादाय तत्सम्पादनाऽसम्भवादिति तत्र व्यभिचारवारणाय ' मद्द्वात' इति उक्तकार्यकारणभावेन द्रव्यवृत्तिगुणादिचाक्षुषस्य द्रव्यवृत्त्यभावचाक्षुषस्य चोपपत्तिरिति समवायवादिनो यथा द्रव्यसमवेतचाक्षुषे चक्षुःसंयुक्तमहदुद्भूतरूपवत्समवायस्य द्रव्यवृत्त्यभावचाक्षुषे चक्षुःसंयुक्तमहदुद्भूतरूपवद्विशेषणत्वस्य च कारणत्वमिति कार्यकारणभावद्वयं तथा कार्यकारणभावद्वयस्य नावश्यकता, निरुकै ककार्यकारणभावेनैवाभयोरपि सङ्ग्रहादिति । तद्धिः वैशिष्ट्यसिद्धिः । ननु रूपाभावान्यमहद्वृत्तिचाक्षुषत्वस्य महत्त्वा भावचाक्षुषे रूपाभावचाक्षुषे चाभावात्, तयोरुपपादनाय कार्यकारणभावद्वयान्तरं वैशिष्ट्यवादिनाऽभ्युपेयमिति वैशिष्टयवादिनोऽपि कार्यकारणभावत्रयकल्पनमावश्यकमिति लाघवस्य विनिगमकस्याभावात् समवायवाद्यभ्युपगतकार्यकारणभावत्रयस्यैव युक्तत्वमित्याशक्य प्रतिक्षिपति - न वेति- अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । एवमपि - उक्तदिशा कार्यकारणभावकल्पनेऽपि । कार्यकारणभावद्वयान्तरेतिद्रव्यवृत्तिमहत्त्वाभावचाक्षुषे चक्षुःसंयुक्तोद्भूतरूपवद्वैशिष्टयस्य कार
त्वम्, द्रव्यवृत्तिरूपाभावचाक्षुषे चक्षुःसंयुक्तमहद्वैशिष्ट्यस्य कारणत्वमित्येवं कार्यकारणभावद्वयेत्यर्थः । समवायाभ्युपगन्तृपक्षे कार्यकारणभावमुपदर्शयति- रूपाभावान्येति- द्रव्यवृत्त्यभावचाक्षुषं वायुवृत्तिरूपाभावचाक्षुषमपि तद्विषये रूपाभावे चक्षुरसंयुक्तोद्भूतरूपवद्विशेषणताया अभावाद् व्यभिचारः स्यादतो 'रूपाभावान्य' इति द्रव्यवृत्त्यभावविशेषणम्, द्रव्यवृत्त्यभावचाक्षुषं परमाणुवृत्तिमहत्वा-: