________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १३७ ध्वंसध्वंसानापत्तेश्च । किञ्च, रूपाभावान्यमहद्वृत्ति चाक्षुषे चक्षुःसंयुक्तमहदुद्भूतरूपवद्वैशिष्टयस्य हेतुत्वात् तत्सिद्धिः । न च, एवमपि
योगित्वरूपेण प्रतियोगितया घटनाशं प्रति कारणत्वमिति घटनाशः प्रतियोगितया पटेऽप्युत्पद्येत, यदि च प्रतियोगितया घटनाएं प्रति तादात्म्येन घटत्वेन घटस्य कारणत्वम्, एवमपि यत्किञ्चिद् घटनाशो यथा तद्धटे प्रतियोगितयोत्पद्यते तदा घटान्तरेऽप्युत्पद्येत, घटत्वेन तस्यापि कारणत्वात्, अतः प्रतियोगितया तद्धटनाश प्रति तादात्म्येन तद्घटस्य कारणत्वमिति विशिष्यैव कार्यकारणभावो नाश-प्रतियोगिनोः, तथा च यदि जातिनाशो भवेद् भवेदपि प्रतियोगितया तं प्रति तादात्म्येन जातेः कारणत्वम्, न च भवति जातिनाशस्ततो जातेर्न तादात्म्येन कारणत्वमित्येतावतेव जातिनाशापत्त्यसम्भवान्न स्वाधिकरणत्वं तदापत्तिवारणाय सम्बन्धकोटौ निवेशनीयं समवायवादिना, तथैव वैशिष्टयवादिना वैशिष्ट्यसम्बन्धघटितकार्यकारणभावेऽपि न कालिकसम्बन्धेन स्ववृत्तित्वमपि सम्बन्धतया निवेशनीयम् नाशस्य नाशाभावेन न प्रतियोगितया तं प्रति तादात्म्येन नाशस्य हेतुत्वमिति ध्वंसध्वंसापत्त्यभावादित्यर्थः ।
"
"
वैशिष्ट्यसिद्धये प्रकारान्तरमुपदर्शयति- विशति वायौ रूपाभावस्य चाक्षुषमपि महद्वृत्तिचाक्षुषं भवति, तच्च विषयतासम्बन्धेन रूपाभावे उत्पद्यते, न च तत्र चक्षुःसंयुक्तमहदुद्भूतरूपवद्वंशियम् वायोर्महत्त्वेऽप्युद्भूतरूपवत्त्वाभावेन वायुमुपादाय चक्षुःसंयुक्तमहदुद्भूतरूपवद्वैशिष्टयस्य तत्र योजयितुमशक्यत्वादिति व्यभिचारः स्यात्, तद्वारणाय रूपाभावान्य' इति महद्वृतिविशेषणम् ; रूपाभावान्यचाक्षुषे' इत्येतावन्मात्रोक्तौ रूपाभावान्यस्य महत्त्वाभावस्य परमाणौ चाक्षुषप्रत्यक्षमपि कार्यतावच्छेदकाक्रान्तं भवति, तच्च विषयतासम्बन्धेन महत्त्वाभावे उत्पद्यते न च तत्र:
"
"