________________
१३६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् वाच्यम् ; स्वाधिकरणत्वस्थाने कालिकसम्बन्धेन स्ववृत्तित्वस्य सम्बन्धमध्यनिवेशे दोषाभावात् , प्रतियोगिनो विशिष्य हेतुत्वेन भवति, तदुपपत्तये च प्रतियोगितया नाशं प्रति तादात्म्यसम्बन्धेन जातिर्न कारणम् , एवं नित्यान्तरमपि न कारणमित्येतावतैव जात्यादेन नाशापत्तिः, एवं ध्वंस्य ध्वंसो यदि भवेत् तदा तत्प्रति. योगिन उन्मजनमापद्यत इति ध्वंस्य ध्वंसो न भवति, तदुपपत्तये प्रतियोगितया ध्वंसं प्रति तादात्म्यसम्बन्धेन न ध्वंसस्य कारणत्वम् , यस्य ध्वंसो भवति तस्यैव तत्प्रतियोगितया ध्वंसं प्रति तादात्म्यसम्बन्धेन कारणत्वमित्येतावता ध्वंसस्यापि ध्वंसापत्तिर्न भवतीति प्रतियोगितया स्ववृत्तित्वसम्बन्धेन नाशवन्नाशं प्रति स्वप्रतियोगिनिरूपितवैशिष्ट्यसम्बन्धावच्छिन्नवृत्तित्वलक्षणस्वप्रतियोगिवैशिष्टयसम्बन्धेन घटनाशस्य कारणत्वमिति सुसङ्गतमेवेत्यभिप्रायवान् वैशिटयवादी प्रतिक्षेपहेतुमुपन्यस्यति- स्वाधिकारणत्वस्थान इति । दोषाभावात् व्यतिरेकव्यभिचारलक्षणदोषाभावात्।। ___ यद्वा, घटादिनाशाद् घटादिसमवेतरूपादे शोभवति, न तु घटादिसमवेतघटत्वादिजातेरित्यस्योपपत्तये स्वाधिकरणत्वस्य सम्बन्धकुक्षौ प्रवेशः, तत्र वैशिष्टयवादी कथयति- स्वाधिकरणत्व. निवेशमन्तरापि जातिध्वंसापादनवारणसम्भवात् स्वाधिकरणत्वं तत्र न निवेश्यम् , यतः प्रतियोगितया नाशं प्रति तादात्म्यसम्बन्धेन प्रतियोगिनोऽपि कारणत्वम् , यद्बलान्मुद्रपातादिना जायमानो ध्वंसः प्रतियोगितया घट एवोत्पद्यते न पटादौ, नहि मुद्गरपातादिना यो घटादिध्वंसो भवति तस्य घटादिसमवेतनाशं प्रति घटादिनाशस्य कारणत्वमिति कार्यकारणभावेन गतार्थता, एवं च सामान्यतः प्रतियोगितया नाशं प्रति तादात्म्येन घटस्य कारणत्वे पटनाशोऽपि प्रतियोगितया घटे आपद्येत, यदि च प्रतियोगितया घटनाशं प्रति तादात्म्येन प्रतियोगिनः कारणत्वं तदा पटोऽपि कस्यचित् प्रतियोगी भवतीति तस्यापि तादात्म्येन प्रति